________________
९७
तपसि नागकेतुकथा अवधिज्ञानविज्ञातयानस्खलनकारणः ।। अध्यास्याऽमुष्य सद्म त्वां, द्रव्यादानान्यवारयम् ॥९८३।। अमुं च प्राप्तचैतन्यमकार्षं हर्षपोषतः । तपोमाहात्म्यतो नूनं, स्युः सुरा अपि किङ्कराः' ॥९८४॥ एवमुक्त्वा फणिप्रष्ठेऽलञ्चक्रुषि निजालयम् । भूपः श्रेष्ठिपदं तस्मै, बालाय प्रददे मुदा ॥९८५॥ नागनाथस्य सान्निध्याल्लेभे यज्जीवितं श्रियम् । तेन नाम्ना नागकेतुरिति पृथ्व्यां स पप्रथे ॥९८६॥ यशःशुभ्रितदिग्भागो, लीलावासो गुणश्रियः । चित्तरोपितसर्वज्ञधर्मः सत्कर्मकर्मठः ॥९८७।। क्रमेण वर्धमानोऽयमसमानस्फुरन्महाः । महाशयः सतां चेतांस्यानन्दयदनारतम् ॥९८८॥ युग्मम् ॥ पूर्वजन्मसमभ्यस्तं, तच्चतुर्थादिकं तपः । तथैव पर्वसूदारभावो व्यधित सोऽनिशम् ॥९८९॥ कृपानिधिजिनेशा परः पात्रे ददद्धनम् । शृण्वानः संमयार्थांश्च, मर्त्यजन्माऽकृतार्थयत् ॥९९०॥ कोऽपि ना कोपिनाऽन्येधुरविमृश्य महीभुजा । सूचकैः सूचितालीकचौरदोषो व्यपाद्यत ॥९९१॥ स च तस्मिन्नृपे बिभ्रन्मन्युमन्यायवर्जितः । विपद्य सद्यः सञ्जज्ञे, दीप्तिमानसुरः सुरः ॥९९२॥
१. शास्त्रार्थान् ।