SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्गः-१ प्रयुक्ताऽवधिरुज्ज्वालज्वलनोग्रक्रुधः स च । सपुरक्ष्मापघाताय, विचकाराऽम्बरे शिलाम् ॥९९३।। प्रदत्तासु प्रतोलीषु, तेन सर्वोऽपि पूर्जनः । गर्भक्रोडनिवासीव, भृशं दैन्यं समीयिवान् ॥९९४॥ सभूपः सकलो लोकश्छादितोष्णांशुमण्डलाम् । निपतामि पिनष्मीति, सुदारुणमहारवाम् ॥९९५।। पुरस्योपरि संवीक्ष्य, तां शिलां पृथु वेपथुः । बिभयामास सुतरां, न भयं हि मृतेः परम् ॥९९६।। युग्मम् ॥ अथ क्ष्मापाज्ञयाऽमात्यादिभिर्बन्धुरबुद्धिभिः । तद्वापच्छान्तये नागकेतु रत्यर्थमर्थितः ॥९९७।। परोपकृतये सोऽपि, धृतोत्साहो नराग्रणीः । शुचिरभ्यर्च्य सर्वज्ञं, ययौ पौषधमन्दिरम् ॥९९८॥ पौषधं चोररीकृत्य, कष्टामयमहौषधम् । चित्तस्फुरच्छुभध्यानः, कायोत्सर्ग प्रपन्नवान् ॥९९९॥ क्षणादथाऽसुरस्तस्य, पुण्येनाऽध्यक्षतां गतः । विनयाद् विनतोऽवादीत्, स्वरूपं निखिलं निजम् ॥१०००। नागकेतुर्जगादाऽथ, 'भो भो विबुधसत्तम ! । एकमागो नृपस्येदं, क्षम्यतामविचारिणः ॥१००१।। मेधाविन् ! मा विधाः क्रोधं, सुखरोधनिबन्धनम् । यतः सहचरं वैरं, क्रोधाज्जन्मनि जन्मनि' ॥१००२।। १. तदापत्तिनिवारणाय ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy