________________
तपसि नागकेतुकथा श्रेष्ठिनेत्यनुशिष्टः सोऽसुरः सम्प्राप्य शान्तताम् । सञ्जहारोपसर्गं तं, जहर्ष सकलाऽपि पूः ॥१००३।। प्रसर्पति जयध्वाने, समागत्याऽथ भूपतिः । प्रणनामैनमसुरं, सारनेपथ्यभासुरम् ॥१००४॥ अन्वशात् सोऽपि भूमीशं, 'मा कार्षीरविचारितम् । साम्प्रतं श्रेष्ठिनिर्बन्धात्, समन्तुरपि मुच्यसे' ॥१००५॥ इत्युक्त्वाऽस्मिन्निजपदं, प्राप्ते पृथ्वीशपुङ्गवः । तुष्टाव श्रेष्ठिनं हृष्टः, कष्टाकूपारनाविकम् ॥१००६।। अहो ! ते धर्मविस्फूतिरहो ! ते तप उज्ज्वलम् । अहो ! ते प्रभुता स्फीता, त्वयाऽहो ! रत्नसूर्मही ॥१००७।। श्रेष्ठी प्रोचे 'कथमलं, कार्यस्याऽस्याऽस्मि साधने । किन्तु प्राक्तनपुण्यानि, विजयन्ते भवादृशाम् ॥१००८।। तत्तान्येव दानादिकर्मभिः शुद्धवासनाः । सेवध्वं ध्वस्तनिःशेषविघ्नव्रतानि कोविदाः !' ॥१००९।। इति श्रेष्ठिगिरा तुष्टस्तदाऽकार्षीन्महीपतिः । जिनपूजा-बन्दिमोक्ष-पात्रदाना-ऽभयादिकम् ॥१०१०॥ नागकेतुः पुनः श्रेष्ठी, स्मरंस्तद्वृत्तमासुरम् । वैराग्यरङ्गितः पश्यन्, भवं दुःखभरास्पदम् ॥१०११॥ समक्षं भूमिपादानां, वेश्मभारं निजाऽङ्गजे । निधाय श्राद्धप्रतिमापालने मानसं दधौ ॥१०१२॥ युग्मम् ।। ततः प्रणत्य विधिना, सम्पृच्छन् प्रतिमाविधिम् । सूरिभिः शुद्धसिद्धान्तनिधिभिः सोऽन्वशिष्यत ॥१०१३।।