________________
१००
श्रीअजितप्रभुचरितम् सर्गः-१ 'शुद्धं बिभर्ति सम्यक्त्वं, त्रिकालं पूजयन् जिनम् । यत्र मासं गृही साऽऽद्या, दर्शनप्रतिमा मता ॥१०१४|| मासद्वयं भवेद्यत्र, शुद्धाणुव्रतपालकः । पूर्वानुष्ठानसंयुक्तः, सा व्रतप्रतिमाऽपरा ॥१०१५॥ यत्र सामायिकं धत्ते, द्विसन्ध्यं प्राक्क्रियायुतः । त्रीन् मासान् सा सामायिकप्रतिमा स्मर्यते बुधैः ॥१०१६।। पौषधप्रतिमा मासांश्चतुरो यत्र पौषधम् । चतुर्विधं चतुष्पर्ध्या, धत्ते पूर्वक्रियान्वितः ॥१०१७॥ पञ्च मासान् धरन् पूर्वक्रियाः प्रकट(प्रासुक) भोजनः । स्नानोज्झितो ब्रह्मचारी, दिवा रात्रौ प्रमाणवान् ॥१०१८॥ पौषध[स्थ]श्चतुष्पर्ध्या, प्रतिमामाश्रयेन्निशि । यत्र श्राद्धो भवेत् सा तु, प्रतिमा प्रतिमा[भि]धा ॥१०१९॥ युग्मम् ॥ पूर्वक्रियायुजः षष्ठी, षण्मासान् ब्रह्मचारिणः । सप्तमी सप्त मासान् स्यात्, सचित्तं मुञ्चतोऽखिलम् ॥१०२०॥ त्यजतः स्वयमारम्भं, मासानष्टाऽष्टमी मता । नवमी स्यान्नव मासाननारम्भयतः परैः ॥१०२१।। दशम्यां पुनरुद्दिष्टकृताहारविवर्जकः । मुण्डी यद्वा शिखी मासान्, दश स्यान्निर्ममो धने ॥१०२२॥ एकादश्यां पुनरेकादश मासान् मुनीयितः । मुण्डितो लुञ्चितो वाऽऽत्तरजोहृति-पतद्ग्रहः ॥१०२३।।
१. 'प्राशुकभोजनः' इति वासुपूज्यचरित्रे ॥२।१०१५॥ २. गृहीतरजोहरण
पतद्ग्रहः ।