________________
तपसि नागकेतुकथा 'भिक्षां [मे] देहि प्रतिमां, बिभ्राणाय दशोत्तराम्' । इति जल्पन् प्रासुकान्नग्राही चरति बन्धुषु ॥१०२४॥ युग्मम् ॥ एकादशाऽमूः प्रतिमा, नागकेतो ! महाशय ! । मोहाम्भोधि तितीर्पूणां, नौदॆश्या गृहमेधिनाम्' ॥१०२५॥ श्रुत्वेति श्राद्धधुर्योऽसौ, गुर्वादेशवशंवदः । धन्यम्मन्यः प्रयत्नेन, प्रतिमाः पर्यपालयत् ॥१०२६॥ अन्यदा पौषधस्थोऽयं, शुक्लध्यानं समाश्रितः । क्षणाद् घातीनि कर्माणि, हत्वाऽभूत् केवलोज्ज्वलः ॥१०२७॥ देवतादत्तनिर्ग्रन्थवेषः सैष चिरं भुवि । भव्यानानन्दयामास, चकोरानिव चन्द्रमाः ॥१०२८॥ समये भुवनाभ्यो , लोकोत्तरगुणव्रजः । आससाद च लोकाग्र[म]नन्तसुखसुन्दरम् ॥१०२९॥ भव्या ! नव्यामिमां नागकेतोराकर्ण्य सत्कथाम् । प्रतनुध्वं तपस्तीव्रमखण्डं सुखमीप्सवः ॥१०३०॥ यत् प्रत्यूहगजव्रजे प्रतिकलं, पञ्चास्यपोतायते, यस्माल्लब्धिततं समृद्धिमसमां, धत्ते चमत्कारिणी[म्] । तीर्थेशैरपि कर्मशत्रुहनने, शस्त्रं यदेवेष्यते, हेतौ सर्वसुखश्रियां तपसि कस्तस्मिन् प्रमाद्यद्बुधः ? ॥१०३१॥
[शार्दूलविक्रीडितवृत्तम्] -- तपसि नागकेतुकथा । ग्रं. २४९ -
१. तरितुल्या । २. पञ्चास्यपोत इव आचरति ।