SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्ग: - १ १०२ अमी दानादयो धर्माः सर्वे स्वर्गापवर्गदाः । भावनासहिता एव, न तद्विरहिताः पुनः ||१०३२|| दानं यथा प्रियगिरा, सारण्येव द्रुमावलिः । तत्त्वज्ञतेव साम्येन, प्रशमेनेव सन्मुनिः || १०३३॥ विनेयो विनयेनेव नयेनेव नरेश्वरः । धत्ते भावनया धर्मः, सर्वशोभां परां तथा ॥ १०३४॥ युग्मम् ॥ दुर्मत्तचित्तमातङ्गसृणिः पापतमोऽर्करुक् । सिद्धिश्रीललनादूती, भावना भाव्यतां बुधैः ||१०३५ ॥ कायक्लेशमकृत्वाऽपि तपोऽतप्त्वाऽपि दुःसहम् । कूरगडुकवत् सोऽर्थसिद्धिं भावनयाऽऽप्नुयात् ॥१०३६॥ तथाहि शुद्धचारित्रपवित्रैः साधुभिर्वरे । क्वचिद् गच्छे मुनिः कश्चिन्, मासेनाऽपारयत् सदा ||१०३७|| अन्येद्युराश्रयात् पूर्णतपाः साधुः स पारणे । क्षुल्लकेन समं काले, निर्ययौ विजिहीर्षया ॥१०३८ ॥ वर्षावशात्तदा चाऽऽसन्, दर्दुर्यः पथि भूरिशः । एकां च क्षपकः साधुः, प्रमादेनाऽवधीत् पदा ॥१०३९॥ ऋजुहृत् क्षुल्लक्श्चैनां, दृष्ट्वोचे 'महदद्य ते । मुने ! जातमघं पादाहतेर्यद्दर्दुरी मृता' ॥१०४०॥ अजीर्णं तपसः क्रोध, इति सत्यापयन् वचः । तपस्वी समुदीर्णक्रुत्, कम्पमानरदच्छदः ॥१०४१॥ १. भावनाविरहिता: ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy