________________
श्रीअजितप्रभुचरितम् सर्ग: - १
१०२
अमी दानादयो धर्माः सर्वे स्वर्गापवर्गदाः । भावनासहिता एव, न तद्विरहिताः पुनः ||१०३२||
दानं यथा प्रियगिरा, सारण्येव द्रुमावलिः । तत्त्वज्ञतेव साम्येन, प्रशमेनेव सन्मुनिः || १०३३॥
विनेयो विनयेनेव नयेनेव नरेश्वरः ।
धत्ते भावनया धर्मः, सर्वशोभां परां तथा ॥ १०३४॥ युग्मम् ॥
दुर्मत्तचित्तमातङ्गसृणिः पापतमोऽर्करुक् । सिद्धिश्रीललनादूती, भावना भाव्यतां बुधैः ||१०३५ ॥
कायक्लेशमकृत्वाऽपि तपोऽतप्त्वाऽपि दुःसहम् । कूरगडुकवत् सोऽर्थसिद्धिं भावनयाऽऽप्नुयात् ॥१०३६॥ तथाहि शुद्धचारित्रपवित्रैः साधुभिर्वरे । क्वचिद् गच्छे मुनिः कश्चिन्, मासेनाऽपारयत् सदा ||१०३७|| अन्येद्युराश्रयात् पूर्णतपाः साधुः स पारणे ।
क्षुल्लकेन समं काले, निर्ययौ विजिहीर्षया ॥१०३८ ॥
वर्षावशात्तदा चाऽऽसन्, दर्दुर्यः पथि भूरिशः । एकां च क्षपकः साधुः, प्रमादेनाऽवधीत् पदा ॥१०३९॥ ऋजुहृत् क्षुल्लक्श्चैनां, दृष्ट्वोचे 'महदद्य ते । मुने ! जातमघं पादाहतेर्यद्दर्दुरी मृता' ॥१०४०॥ अजीर्णं तपसः क्रोध, इति सत्यापयन् वचः । तपस्वी समुदीर्णक्रुत्, कम्पमानरदच्छदः ॥१०४१॥
१. भावनाविरहिता: ।