________________
कूरगडुकमुनिपूर्वभववर्णनम्
अङ्गुल्या दर्शयन् पूर्वमृता भेकी: पदे पदे ।
अभ्यधाद् ‘रे ! मया जघ्ने, किमसावप्यसावपि' ॥१०४२॥ युग्मम् ॥
क्षुल्लकोऽक्षुद्रचित्तोऽथ, तूष्णीमासीदसीमधीः । सचेतना हि चेष्टन्ते, सर्वत्र समयोचितम् ॥ १०४३||
१०३
प्रतिक्रमणकाले तु, तदेनः क्षुल्लकेन सः । स्मारितो हृदये दीप्ततीव्ररोषहुताशनः ॥१०४४|| 'मिथ्यावादिन् ! किमद्यापि तथैव परिजल्पसि । इत्युक्त्वा धावितो हन्तुं, गृहीत्वा खेलमल्लकम् ॥१०४५॥ युग्मम् ॥
तीव्रक्रोधानसुमतः, कृत्याकृत्यविचारणा ।
समाश्रयति नो जातु, दुर्भगानिव कामिनी ॥ १०४६॥ पीतमद्य इव क्रोधोद्धरोऽरुणविलोचनः । भ्रष्टः सदध्वनो निन्द्यः प्रपतेन्नरकावटे ॥१०४७॥ ततोऽन्तराले स्तम्भेन, स्खलितो भिन्नमस्तकः । मृत्वाऽरण्ये क्वचिद् दृष्टिविषाहीनां कुलेऽजनि ॥१०४८॥ कुले तत्र च प्राग्जन्मविराद्ध श्रमणव्रताः । जातिस्मृतियुजः सर्वे, विद्यन्ते किल पन्नगाः ॥१०४९॥ दिवाऽस्मद्दृग्विषेणोच्चैः, प्राणिघातः स्म मा भवत् । इति ते रजनौ भ्रान्त्वा, प्रासुकाहारमाशिषुः ॥ १०५०॥ सोऽपि क्षपकजीवो हि निजं प्राच्यं जनुः स्मरन् । सज्ज्ञानगर्भवैराग्यसङ्गतो हृदि दध्यिवान् ॥ १०५१॥