________________
१०४
श्रीअजितप्रभुचरितम् सर्गः-१ आः ! कीदृक्षमुदेति स्म, मम दुष्कर्म दारुणम् । नियतं क्षीयते कर्माऽनुपभुक्तं न जातुचित् ॥१०५२॥ जीव ! प्राप्याऽपि मानुष्यं, लब्ध्वाऽपि जिनशासनम् । चारित्रवानपि क्रोधाद्धिग् धिक् प्राप्तोऽसि दुर्गतिम् ॥१०५३।। दुर्विपाकं क्रुधः श्रीमदर्हद्वाचा विदन्नपि । भवाब्धावन्धवज्जीव !, पेतिवानसि हा वृथा ॥१०५४।। इहाऽमुत्र च कोपोऽसौ, सौख्याम्भोधिघटोद्भवः । निमित्तं सर्वदुःखानामामयानामपथ्यवत् ॥१०५५।। हा दृष्टिविषनागत्वं, कोपादासेदिवानहम् । बहुप्राणविघातेन, दुर्गदुर्गतिकारणम् ॥१०५६॥ इति ध्यायन् दृष्टिविषोद्भूताङ्गिवधभीरुकः । दिवाचारं त्यजन् रात्रौ, भ्राम्यन् प्रासुकमाश सः ॥१०५७॥ समुल्लसितनिर्वेद, मानसं तस्य बिभ्रतः । बिभरामास दुष्कर्मस्पर्द्धया तानवं तनुः ॥१०५८।। इतश्च विपुलश्रीके, श्रीवसन्तपुरे पुरे । पुत्रोऽदश्यत नागेनाऽरिमर्दननरेशितुः ॥१०५९॥ विषं प्रसरदङ्गेऽस्य, च्छादयामास तत्क्षणम् । ज्ञानावरणकर्मेव, दुर्वारं हन्त चेतनाम् ॥१०६०।। दुःखौघविह्वलेनाऽथ, नरनाथेन सत्वरम् । प्रयुक्ता मान्त्रिकास्तत्रोपचारान् विविधान् व्यधुः ॥१०६१।। १. बद्धम् । २. सुखसागरपाने अगस्तिसदृशः ।