________________
१०५
कूरगडुकमुनिपूर्वभववर्णनम् मन्त्र-यन्त्रौषधादीनि, तत्र न्यस्तानि मोघताम् । अवापुरूषरक्षोणीसमारोपितबीजवत् ॥१०६२।। तदेकनन्दनो भूपः, क्षीणोपायसमुच्चयः । [स] वज्राहतवत् क्ष्मायां, पपात गतचेतनः ॥१०६३।। क्षणेन चेतनां लब्ध्वाऽघोषयन्नगरेऽखिले । विषवेगापहर्ने भो !, राज्यार्द्ध प्रददाम्यदः ॥१०६४॥ तच्छ्रुत्वा मान्त्रिकः कश्चिद्, भूपाभ्यर्णमुपागतः । जगावमारिं नागानां, विधापय विभो ! पुरे' ॥१०६५॥ राज्ञा तथाकृते सोऽपि, लिखित्वा मण्डलद्वयीम् । आचकर्षोभयान् सर्पान्, गन्धनाऽगन्धनाभिधान् ॥१०६६।। सर्वदिग्भ्यः समाजग्मुर्मन्त्रिकृष्टाः फणाभृतः । अचिन्त्यो हि मणी-मन्त्रौषधीनां महिमाऽद्भुतः ॥१०६७।। मान्त्रिकः स्माह 'भो नागा !, गन्धनाऽगन्धनाख्ययोः । यथोचितं मण्डलयोरवस्थानं विधीयताम्' ॥१०६८।। शासनं मान्त्रिकस्यैतत्तैरकारि तथैव हि। महामहिमसाराणामाज्ञा कैर्नाम लभ्यते ॥१०६९।। कुमारं मारसङ्काशं, यो ददंश दुरात्मकः । तं विनाऽन्ये यथास्थानं, यान्तु सर्वे सरीसृपाः ॥१०७०॥ इति मान्त्रिकवाचाऽस्थादगन्धनकुलोद्भवः । एक: सागा महानागः, परे जग्मुर्यथागतम् ॥१०७१।। १. आज्ञा । २. कामदेवसमानम् । ३. सर्पाः ।