SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीअजितप्रभुचरितम् सर्गः-१ चितां कीनाशजिह्वाभज्वालामालासमाकुलाम् । विरचय्याऽवदद्दन्दशूकं तं मान्त्रिकाग्रणीः ॥१०७२।। 'जिजीविषुर्यदि तदाऽमुष्याऽङ्गाद् विषमापिब । नो चेदेतां चितां वेगात्, प्रविश प्राणनिःस्पृहः' ॥१०७३।। अपिपासुर्विषं वान्तं, सोऽगन्धनभुजङ्गमः । चितां विवेश मन्त्रेणाऽऽकुलः कलितसत्कुलः ॥१०७४।। कुलोद्भवा वरं प्राणपरिहारं प्रकुर्वते । भुञ्जते विषयान् वान्तान्न त्वगन्धननागवत् ॥१०७५॥ विषग्रस्तसमस्ताङ्गे, कुमारेऽथ मृति गते । कोपाटोपं धराधीशो, जातौ कुण्डलिनां दधौ ॥१०७६॥ 'समानेष्यति यः कश्चित्, सर्पतुण्डं ममाऽग्रतः । तस्मै दास्यामि दीनारमिति' लोकान् जजल्प च ॥१०७७।। प्रकृत्या हिंसको लोको, विशेषाल्लोभतः पुनः । प्रावृतन्नागहिंसायामज्ञानं हा शरीरिणाम् ॥१०७८॥ दयाहीनेष्वहीनेवं, घ्नत्सु कश्चन मान्त्रिकः । तदेव दृग्विषव्यालवनं भ्राम्यन् समाययौ ॥१०७९।। बह्वीस्तत्रौरगीर्वीक्ष्य, रेखास्तुष्टमना भृशम् । प्रापोरगबिलद्वाराण्याशु रेखाऽनुसारतः ॥१०८०॥ तेषु चाऽमुञ्चदाकृष्टिनिमित्तं किञ्चिदौषधम् । महाप्रभावेण तेन द्राग, व्याकुला निर्ययुश्च ते ॥१०८१॥ शिरांसि निर्यतां तेषामच्छिनत् सोऽतिनिष्कृपः । क्षपकाहिबिलेऽमुञ्चत्, क्रमाच्चाऽऽकर्षणौषधम् ॥१०८२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy