________________
१०७
भावनायां कूरगडुकमुनिकथा मा प्रापन्मरणं म[द्]दृग्वीक्षणादेष कर्षकः । इत्यारभत निर्गन्तुं, सोऽहिः पुच्छेन सत्कृपः ॥१०८३।। निर्गतं निर्गतं भोगभागं छिन्दति मान्त्रिके । भोगिराड् नो रुषो लेशमप्यतनुत मानसे ॥१०८४।। आत्मन् ! भुव कृतं कर्म, नाऽकृतं ह्युपतिष्ठते । कोपं कुर्वन् पुरावत्त्वं, मा स्म पप्तः कुयोनिषु ॥१०८५॥ प्राणापहारिणं चैनं, दुष्कर्मव्यूहभेदकम् । वयस्यत्वेन मन्यस्व, भजस्व शरणं जिनम् ॥१०८६।। एवं ध्यानपरः स्वांहो, गर्हन् मृत्वाऽवतीर्णवान् । अरिमर्दनभूपालपत्न्या ग भुजङ्गमः ॥१०८७॥ विशेषकम् ॥ नागाधिष्ठातृदेव्याऽथ, प्रोचे 'भूप ! कुकर्म किम् । प्रारब्धं नरकक्रोडवासकारणमेतकत् ॥१०८८॥ भविष्यति तनूजस्ते, दयालुः शमवान्नयी । मेधावी विक्रमी सर्वलक्षणाक्षुण्णविग्रहः ॥१०८९॥ मारिं वारय सर्पाणां, रोषं मुञ्च स्वमानसात् । दुःखाम्भोधौ निजात्मानं, मा झैप्सीः क्षितिपुङ्गव !' ||१०९०॥ अथ भूमानघाद् भीमसर्पघातान्न्यवर्त्तत । पुपोष राज्ञी गर्भं च, शस्तसम्पूर्णदोहदा ॥१०९१॥ सुदिने चाऽजनि सुतः, क्षमापदृक्कुमुदैणभृत् । सान्वयां नागचन्द्राख्यां, दधच्चाऽवर्द्धताऽन्वहम् ॥१०९२।। आजन्म शमपाथोधिर्बुद्धिव्रततिभूरुहः । श्रीखण्डशीतलवचाः, कस्याऽसौ नाहरन्मनः ? ॥१०९३।।