SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०८ श्रीअजितप्रभुचरितम् सर्गः - १ जिनागमसुधास्वादसक्तः प्रव्यक्तचेतनः । मेने भोगानयं भोगिभोगानिव सुदारुणान् ॥१०९४॥ तस्य सद्गुरुबाहुल्यासेवनाद् वृद्धिमासदत् । चित्तालवाले वैराग्यद्रुमो मोक्षफलप्रदः ॥१०९५|| अत्याग्रहादेव पुत्रोऽप्यथाऽसौ पितरौ निजौ । अनुज्ञाप्य गुरोः पादमूले व्रतधुरां दधौ ॥ १०९६ ॥ पूर्वतिर्यग्भववशात्, क्षुधाक्रान्तः प्रतिक्षणम् । आरभ्योदयतो भानोरस्तं यावदभुक्त सः || १०९७।। जना मुहुर्मुहुः कूरं, भुञ्जानं क्रूरतोज्झितम् । जजल्पुरल्पकर्माणं, कूरगडुक इत्यमुम् ॥१०९८॥ आददानो विशुद्धात्मा, शुद्धमाहारमन्वहम् । कर्म निर्जरयामास, निर्ममो मुनिराडयम् ॥ १०९९॥ एकद्वित्रिचतुर्मासोपवासाऽकृतपारणाः । चत्वारः समजायन्त, गच्छे तस्मिंस्तपस्विनः ॥ ११०० ॥ स क्षुल्लकमुनिस्तेषां प्रशंसन्नद्भुतं तपः । निर्मायो निर्ममे वैयावृत्त्यमत्यन्तशुद्धहृत् ॥११०१॥ स्वं निनिन्देति चाऽजस्त्रं धिगहं सत्त्ववर्जितः । मन्दभाग्योऽसकृद् भुञ्जे, क्व लप्स्ये निर्वृतिश्रियम् ? ॥११०२॥ , अन्येद्युस्तेषु पश्यत्सु, क्षपकेषु कृताञ्जलिः । ननाम शासनसुरी, पूर्वं तं क्षुल्लकं मुनिम् ॥११०३॥ चतुर्मासोपवासोग्रतपसा पश्यताऽथ तत् । साक्षेपं भ्रकुटीभीष्मचक्षुषाऽवादि देवता ||११०४||
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy