________________
१०२
भावनायां कूरगडुकमुनिकथा 'कथं विवेकवैकल्यं, रे रे पण्डितमानिनि ! । त्वमप्येवं कलयसि, नमन्ती धान्यकीटकम् ॥११०५।। असिधारोपमोदग्रतपसोऽस्मान् विहाय किम् । ललज्जिषेऽपि नो एनं, वन्दमाना जडाशये !' ॥११०६।। देव्यूचे 'भावतपसा, युष्माकं पश्यतामपि । पूज्योऽयं जगत्यां भावी, तत् कोपो मा विधीयताम् ॥११०७।। आहारपरिहारेण, प्रथितं द्रव्यतस्तपः । भावतस्तु तपस्तद्या, शमादिगुणपूर्णता ॥११०८।। क्षुधापीडितदेहानां, दरिद्राणामपीह वै । तपो नास्ति ? द्रव्यतः किन्तु, न श्लाघ्यं तन्मनीषिभिः ॥११०९।। किञ्चाऽनादौ भवेऽमुष्मिन्, परिभ्राम्यन्ननारतम् । द्रव्यक्षपकतां जन्तुरलब्धाऽनन्तशः किल ॥१११०॥ विवेकिनोऽपि यद् ब्रूथ, धान्यकीटक इत्यमुम् । मत्सरापूरितहृदां, तत्तपोहानिकृद्वचः ॥११११।। उपवासः सदाऽप्यस्य, प्रासुकाहारभोजिनः । स्वशक्त्यैव जिनाधीशैस्तपश्च प्रतिपादितम् ॥१११२।। तद् भावतपसा ज्येष्ठो, युष्माभिः शमवानयम् । भाव्यनुत्तरकल्याणः, स्वतो हीनः किमुच्यते ? ॥१११३।। अन्यच्च केवलज्ञाने, जातेऽस्य प्रातरुज्ज्वले । वन्दारुसुरनाथैर्मे, नाऽवकाशो भविष्यति ॥१११४॥ स्वसेवावसरेऽमुष्मिन्, वन्देऽमुं तेन साधवः ! । प्रस्तावं वेद यो विश्वे, स एव स्वार्थसाधकः' ॥१११५।।