________________
११०
श्रीअजितप्रभुचरितम् सर्ग:-१ तन्निशम्य क्रुधाक्रान्ताः, श्रमणास्तेऽभ्यधुर्दुतम् । असावविरतो नन्तुं, युक्तोऽस्याः स्वसदृक्त्वतः ॥१११६।। देव्यथो तस्य तेषां च, क्षान्तौ क्रोधे च निर्भरम् । विन्दानाऽनुपमेयत्वमन्तर्धत्ते स्म सत्वरम् ॥१११७।। द्वितीयेऽह्नि प्रातराशं, गृहीत्वा क्षुल्लको मुनिः । आगत्याऽऽमन्त्रयामास, चतुर्मासोपवासिनम् ॥१११८॥ स तु कोपान्नितिष्ठेव, तपस्वी तस्य भाजने । मिथ्यादुष्कृतदानेनाऽक्षमयत् क्षुल्लकोऽपि तम् ॥१११९।। एवमग्रेऽपि तान्यस्तनिष्ठ्यूतांस्त्रीन् परानपि । क्षुल्लकोऽक्षमयत् पादपद्मन्यस्तशिरा इति ॥११२०॥ धिग् धिग् मया प्रमादेन, नार्पितं खेलमात्रकम् । जातोऽस्मि वो महर्षीणामसमाधिनिबन्धनम् ॥११२१॥ ममाऽऽगः क्षम्यतामेतदित्युक्त्वा सततं शमी । तन्निष्ठ्यूतं समुहृत्य, भुञ्जानो भावनां दधौ ॥११२२॥ हहाऽहं पशुवद्वद्धलक्ष्योऽस्म्यन्नकृते सदा । एते च क्षपकास्तीव्र, तप्यन्ते दुस्तपं तपः ॥११२३।। उद्वेगकारिणोऽजलं, ममैतेषां तपस्विनाम् । दुष्कर्मभ्यः कथङ्कारं, मुक्तिः खलु भविष्यति ॥११२४।। मिथ्या मे दुष्कृतं भूयात्तदमुष्य महागसः । यतीश्वराणामुद्वेगं, विधास्यामि पुनर्न हि ॥११२५।।
१. प्रभातभोजनम् ।