________________
भावनायां कूरगडुकमुनिकथा जैनलिङ्गधरस्यापि, ममाऽविरतियोगतः । गमिष्यति भवो वृद्धि, कौमुदीसङ्गतोऽब्धिवत् ॥११२६।। साधवोऽमी अहमपि, साधुः ख्यातिरियं जने । महानस्ति विशेषस्तु, महीध्र-परमाणुवत् ॥११२७॥ इति भावनया साधुधुर्यः स क्षणमात्रतः । क्षपकश्रेणिमारुह्य, घातिकर्मक्षयं व्यधात् ॥११२८॥ कलयामास च ज्ञानं, लोकालोकप्रकाशकम् । अनन्तद्रव्यपर्यायविषयं केवलाह्वयम् ॥११२९॥ सुरभिः प्रववौ वायुर्विश्वविश्वप्रमोदकृत् । देवा गन्धोदकं पुष्पव्रातं च ववृषुर्जवात् ॥११३०।। सौवर्णकमले दिव्ये, दिविषद्भिर्विनिर्मिते । उपविश्य सुधादेश्यां, देशनां विदधे मुनिः ॥११३१॥ असकृद्भोजिनोऽप्यस्य, साधोर्ऋद्धिः किमीदृशी ? । इति संशयशल्यं स, प्राक्रंस्तोद्धर्तुमङ्गिनाम् ॥११३२॥ तथाहि - एकैकभावना भो भोः !, सर्वसिद्धिनिबन्धनम् । दान-शील-तपांसि स्युनिष्फलान्येव यां विना ॥११३३॥ प्राणिनोऽमूमनारुह्य, भावनामधिरोहणी[म्] । मध्यमध्यासते सिद्धिसौधस्य न कदाचन ॥११३४॥ सा च भव्यैर्भावनीया, भेदैर्वादशभिः सदा । निविरीसतमःस्तोमापही भानुमूर्तिवत् ॥११३५।।