SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११२ तद्यथा श्री अजितप्रभुचरितम् सर्ग:-१ द्वादशभावनावर्णनम् वस्तुष्वनित्यतां ध्यायेदत्राणं चैकतां तथा । अन्यत्वमथ संसारमशौचं लोकमेव च ॥ ११३६॥ कर्मणामाश्रवं शश्वत्, संवरं निर्जरां तथा । उत्तमांश्च गुणान् बोधिदुर्लभत्वं तथैव च ॥ ११३७॥ युग्मम् ॥ इन्द्रजाले क्षितं वस्तु, दृष्टमात्रं विनश्यति । यथा तथा सुहृद्बन्धु-देह-श्री-यौवनादिकम् ॥११३८॥ स्वप्नसम्प्राप्तसाम्राज्यो, यथा कश्चित् प्रमोदते । तथैश्वर्यमिदं लब्ध्वा, मुधा माद्यति बालिशः ॥११३९॥ किं दृप्यति श्रियं प्राप्य, तारुण्यमदमेदुरः । यत् पञ्चाहात् परं न श्रीर्न तारुण्यं न चासकौ ॥११४०|| एवं समस्तवस्तूनां ध्यायन्नश्वरतां सदा । निर्ममो व्रियते मुक्तिश्रिया बद्धानुरागया || १९४१॥ [अनित्यता-१] अङ्गिनां जन्ममरणरागौघवशवर्त्तिनाम् । समस्ति कोऽपि न त्राता, करुणं क्रन्दतामपि ॥११४२ ॥ अश्रान्तं विविधक्लेशान्, विषह्य श्रीरुपार्जिता । मृत्युना ह्रियमाणं स्वस्वामिनं पाति नो मनाक् ॥ ११४३॥ कालेऽनादावनन्ते च चक्रि-विष्णु-बलैरपि । ना कोऽपि त्रायतेऽत्रायि, त्रास्यते वाऽपि मृत्युतः ॥११४४ ॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy