________________
द्वादशभावनावर्णनम्
प्रहीणजन्ममरणमेकमर्हन्तमन्वहम् । शरण्यं शरणं कुर्वन्, मुच्यते सर्वभीतितः ॥ ११४५॥
एवं विशुद्धहृदयः कश्चिदासन्नसिद्धिकः ।
ध्यायत्यशरणं भीतो, भवकान्तारचारतः ॥११४६॥ [अशरणम्-२] एक: करोति कर्माणि, भुङ्क्ते देही तथैककः । म्रियते जायते चैकः, सखा कोऽपि न कुत्रचित् ॥११४७॥
स्वं स्वं कर्मफलं सर्वो, भुङ्क्ते यत् संसृताविह । ततः कः स्वजनः कस्य, कस्य वा कः परो भवेत् ॥ ११४८ ॥
स्वजनानां कृते पापान्यनेकानि करोति यः ।
तस्य हा सु[ख] - दुःखौघविभागी स्यान्न कञ्चन ॥११४९ ॥
एकत्वं भावयन्नेवं, विरतः पापकर्मणः । रतश्चात्महिते कर्मपञ्जरान्मुच्यतेऽङ्गवान् ॥११५०॥ [एकत्वम्-३]
११३
अन्यत् कुटुम्बमन्या च, लक्ष्मीरन्यदिदं वपुः । जन्तुर्न केनचिद्यस्मादमुत्रैषोऽनुगम्यते ॥११५१॥ मातरः पितरो भार्यास्तनुजाः स्वजनास्तथा । सम्प्राप्ताः कति नो कर्मवशतो भ्राम्यताऽङ्गिना ? ॥११५२ ॥
प्रदोषे पक्षिवद् वृक्षे, देशकुट्यां च पान्थवत् । तेषां योगः समस्तोऽपि वियोगान्तो ध्रुवं भवे ॥११५३॥
इत्यन्यत्वं स्मरन् रागद्वेषोज्झितमतिः सदा ।
प्राणी संसारपर्यन्तं, तनुते स्वल्पकालतः ॥ ११५४॥ [अन्यत्वम्-४]