________________
११४
श्रीअजितप्रभुचरितम् सर्गः-१
जायते नारकस्तिर्यङ्, मनुष्यो निर्जरोऽपि च । जन्तुः कर्मानुसारेण, संसारे सुखदुःखभाक् ॥११५५।। तत्र नारकतां प्राप्तो, बीभत्सः श्यामविग्रहः । निमेषमात्रमपि नो, शरीरी लभते सुखम् ॥११५६।। परमाधार्मिकैः प्राच्यं, स्मारयित्वाऽघमुल्वणम् । हन्यते बध्यते चासौ, छिद्यते भिद्यतेऽपि च ॥११५७।। छिन्नभिन्नोऽपि दग्धोऽपि, त्रुटितोऽपि च नारकः । सूतवन् मिलति प्राच्यक्रूरकर्मविपाकतः ॥११५८॥ मत्कामोऽपि भोग्यायुर्वशान्न म्रियतेऽसकौ । वैरं विकल्प्याऽसदपि, सार्द्धं चान्येन युध्यते ॥११५९।। क्षेत्रस्वभावसम्पन्नशीतोष्णादिप्रपीडितः । प्रभूतं समयं पापफलं भुञ्जीत नारकः ॥११६०।। प्राप्तः स्थावरतिर्यक्त्वे, पृथ्व्यादिषु जनि पुनः । शरीरी दुःखमत्यन्तं, सहते खननादिभिः ॥११६१॥ निगोदेष्वङ्गवान् क्षुल्लभवग्रहणयोगतः । वारान् सप्तदशैकस्मिन्नुच्छ्वासे म्रियते हहा ॥११६२॥ कृमि-मत्कुण-दंशादिविकलेन्द्रियतां गतः । विमर्दनाद्यैः सततं, मरणं लभतेऽसुमान् ॥११६३।। अव्यक्तचेतनो धिग् धिग्, देहवान् विकलेन्द्रियः । व्यर्थं शब्दायते याति, तिष्ठत्यपि निषीदति ॥११६४॥