________________
४४
श्रीअजितप्रभुचरितम् सर्गः-१ पीयूषति विषं तोयत्याश्रयाशः स्रजत्यहिः । गोष्पदत्यम्बुराशिश्च, शीलभाजां शरीरिणाम् ॥४३१॥ अङ्गिनां शुद्धशीलानां, सुरासुरनरर्द्धयः । न दुर्लभा न दूरे च, मोक्षसौख्यमपि ध्रुवम् ॥४३२।। चिन्तामणिः करे तेषां, तेषां कल्पद्रुमो गृहे । कामगौः सविधे तेषां, येषां शीलं समुज्ज्वलम् ॥४३३॥ शीलं चम्पकमालावद्विमलं कलयन्ति ये । विलीयन्ते]ऽरयस्तेषां, सुराश्च स्युर्वशंवदाः ॥४३४|| तथाहिजम्बूद्वीपस्य भरते, विशालाख्या समस्ति पूः । बहुभिर्धनदै ढं, या विप्रकुरुतेऽलकाम् ॥४३५।। भूपोऽपाल्ललिताङ्गस्तां, भुजौ यस्य विरेजतुः । यमदण्डाविवोद्दर्पविपक्षौघविघातने ॥४३६।। तस्य प्रीतिमतीकुक्षिसरसीकलहंसिका । सुता चम्पकमालेति, बभूवाऽद्भूतरूपभूः ॥४३७|| असौ बहूनां पुत्राणामुपर्येकाऽजनिष्ट यत् । सौभाग्यवसतिः पित्रोस्तेनाऽतिप्रेमभूरभूत् ॥४३८॥ धात्रीभिर्लाल्यमानाऽसौ, मन्मनालापशालिनी । चक्रे पित्रोः श्रुतिवापीः, सुधारसभृता इव ॥४३९।। समये मेदिनीनाथः, समाहूयेत्यथादिशत् । महोपाध्यायकुमुदचन्द्रं सत्कारपूर्वकम् ॥४४०।। १. पीयूषमिवाचरति ।