SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा x3 क्रमेण सूरिणा स्वीयपदे न्यस्तोऽथ मङ्गलः । साधूनानन्दयामास, सुरानिव सुरेश्वरः ॥४२३॥ प्रान्तेऽनशन[त]श्चैतौ, ब्रह्मलोकमुपेयतुः । भूयो मत्यौ सुरौ मत्यौ, भूत्वा मुक्तिमवाप्स्यतः ॥४२४॥ एवं मङ्गलकलसं, दानादुल्लसितेन्दिरम् । समाकर्ण्य सकण्र्णाः स्थ, तत्र शश्वत् समुद्यताः ॥४२५॥ प्रायस्तिर्यगमर्त्य-नारकिभवावाप्तोद्भवैर्देहिभि र्दानं न प्रददे नरेषु तदहो, प्राप्याऽपि जन्मं न यैः । पात्रे स्वश्रियमादधद्भिरनिशं, वृष्टं प्रमोदाश्रुभिस्तैर्वैधेयजनाश्रितैर्भवदवो, निर्वापिता वै कथम् ॥४२६॥ [शार्दूलवि.] दानेषु शास्त्रेऽभयदानमाद्यं, सत्पात्रदानं गदितं द्वितीयम् । एतद्द्वयं सिद्धिसुखैकहेतुरपारसंसारसमुद्रसेतुः ॥४२७।। [उपजातिवृत्तम्] तथाऽनुकम्पोचितकीर्तिभेदं, दानत्रयं भोगफलं न्यगादि । स्वर्गापवर्गाप्तिनिबन्धने तद्, भव्या ! यतध्वं खलु दानधर्मे ॥४२८॥ [उपजातिवृत्तम्] - इति दाने मङ्गलकलसकथा, ग्रं. ३५१, अक्षर-४ .दानं निर्द्रविणैर्भूम्ना, नाराद्धं किल शक्यते । बाह्यहेत्वनपेक्षं तत्, सच्छीलं परिशील्यताम् ॥४२९॥ भो भव्या ! भवपाथोधेः, परं कूलं यदीप्सवः । समाश्रयत तच्छीलपोतं ज्ञाननियामकम् ॥४३०॥ १. नावम् । २. नाविकम् । -
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy