SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीअजितप्रभुचरितम् सर्गः-१ 'यद्येवं तर्हि मां विद्धि, त्वत्प्रागपि मृतं ध्रुवम्' । इत्युक्त्वा सोऽसिमाकृष्य, छिन्ते यावत् स्वमस्तकम् ॥४१३॥ तावत् सा तं करे धृत्वा, स्वनिवेदनपूर्वकम् । क्षमयित्वाऽगमत् स्वीयास्पदं सोऽपि गृहं गतः ॥४१४॥ श्रीदेवी-सोमचन्द्रौ तावेवं शीलोज्ज्वलस्थिती । विहिताराधनावन्ते, प्राप्तावादिमताविषम् ॥४१५।। तत्राऽऽयुः पञ्चपल्यानि, पूरयित्वा क्रमाच्च्युतौ । युवामभवतं पूर्वरीत्या तौ दम्पती नृप ! ॥४१६।। दानमाहात्म्यतो राजंस्तवाऽभूवन् पराः श्रियः । परं परार्थदोषेणाऽवक्रयोपयमोऽप्ययम् ॥४१७।। परिपूर्णस्य शीलस्य, तदानीं च प्रपालनात् । भूयोऽपि सङ्गमोऽभूद्वां, शर्मद्रुमघनाघनः ॥४१८॥ सखी च दूषिता हास्यात्तोषिता यच्च मक्ष्वपि । त्वत्पत्न्या पृथिवीनाथ !, जातं यातं च लक्ष्म तत्' ॥४१९॥ इति पूर्वभवं श्रुत्वा, [तौ] जातिस्मृतिमीयतुः ।। दध्यतुश्च फलं हीदृग, जज्ञेऽल्पस्याऽपि कर्मणः ॥४२०॥ संसारेऽत्र फलन्तीत्थं, चेत् कर्माणि शरीरिणाम् । राज्येनाऽनेन तदलं, कर्मादानैकहेतुना ॥४२१॥ ध्यात्वेति तौ सुतं भूपं, कृत्वा जगृहतुव्रतम् । पालयामासतुश्चासिधारातीवं जितेन्द्रियौ ॥४२२॥ १. प्रथमदेवलोकम् । २. युवयोः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy