________________
मङ्गलकलशस्य पूर्वभवः 'रे रे ! सत्पथविभ्रष्ट !, धृष्ट ! दुर्गतिकष्टदम् । किं ब्रूषेऽह्नाय दृग्मार्ग, त्यजाऽन्त्यजसमक्रमः ॥४०३॥ सुशीला ललना लीलालयं लावण्यशालिनम् । त्यजन्त्युर्वीशमप्यन्यमय॑मात्रस्य का कथा ?' ॥४०४॥ इत्युक्तोऽपि तया सत्या, स यावत् याति नो शठः । तावत् स्वशीलरक्षायै, सा पूत्कर्तुं प्रचक्रमे ॥४०५॥ त्रिभिविशेषकम् ॥ ततो राजकुलाद् भीति, बिभ्राणः स तदोकसः । निर्गत्य गतवान् स्वीयमित्रेभ्योऽकथयच्च तत् ॥४०६।। इतश्च मदनोद्यानस्थिता सोमं स्वमन्दिरम् । यान्तं सायं विलोक्याऽऽशु, कुलस्त्रीवेषधारिणी ॥४०७॥ आगत्याऽन्तिकमब्रूत, 'मद्भर्त्ताऽन्तर्वणं स्थितः । त्वामाह्वयति केनापि, कार्येणाऽऽर्यजनाग्रिम !' ॥४०८।। युग्मम् ॥ सोमोऽपि ऋजुधीः प्राप, तद्वनं तत्पतिं पुनः । तत्राऽनिरीक्ष्य किं न्वेतदिति ध्यायंस्तयोच्यत ॥४०९॥ 'सौभाग्यसम्बन्धेनाऽथ, प्रार्थनाकल्पपादप ! । शरणं भव मे बाढं, पीडितायाः स्मरेषुभिः' ॥४१०॥ ऊचे सोमो 'हहा भद्रे !, कुलद्वयकलङ्कदम् । नेदं नौ युज्यते कर्म, धर्मविध्वंसकारणम्' ॥४११॥ मदनोवाच 'मा वादीः, प्रतिबोधवचोऽधुना । मंस्यसे मद्वचो नो चेत्तन्मर्त्तास्मि तवोपरि' ॥४१२॥ १. निर्लज्ज ! । २. 'सायं तं सायं' इति पु.प्रे. पाठः ।