SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४० श्रीअजितप्रभुचरितम् सर्गः १ भद्राख्यसख्याः प्राणेशं वीक्ष्य त्वग्दोषदूषितम् । सोमप्रिया बभाषे तां, प्रत्येवं हास्यतोऽन्यदा ॥ ३९३॥ 'महिमाऽसौ त्वदङ्गस्याऽपूर्वो यत् पतिरीदृशः ' । भद्राप्याकर्ण्य तच्छ्यामवदनाऽजनि तत्क्षणम् ||३९४|| तां सखेदां परिज्ञाय, श्रीदेवी घृणान्विता । उवाच 'सखि ! हास्येन, मयोक्तं हृदि मा कृथाः ॥ ३९५ ॥ एवं हास्येन तत्कर्म, शर्महारि बबन्ध सा पदे पदे हा कर्म, बन्धन्त्येवं प्रमादिनः ||३९६|| अन्यदा मदनाख्याया, वेश्यायाः पञ्चभिर्नरैः । दुर्दान्तैः सममुद्यानस्थायाः संलाप इत्यभूत् ॥३९७॥ 'अहो ! धर्माग्रहपरौ, बाढनिर्मलमानसौ । श्रीदेवी-सोमचन्द्रौ न, कम्प्यौ केनापि शीलतः ॥ ३९८ ॥ तेषां पुंसामन्यतमः, कामाङ्कुर इति श्रुतः । श्रीदेव्याः शीलविध्वंसे, विदधे दृढसङ्गरम् ॥ ३९९॥ मदनाऽपि स्वसौभाग्यादुन्मत्ताऽभ्यधित द्रुतम् । 'विधास्ये सोमचन्द्रस्य, शीललीलायितक्षयम् ॥४००॥ कामाकुरोऽथ श्रीदेवीं, विदित्वैकाकिनीं रयात् । गेहं प्राप्याऽवद' द्देहि, वाञ्छितं प्रणताय मे' ॥४०१ || किं तदित्यमुया प्रोक्तः, सोऽभासिष्ट 'ममाऽङ्क[गम्] । स्मरतापं स्वाङ्गसङ्गपीयूषेणाऽपसारय' ॥४०२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy