________________
मङ्गलकलशस्य पूर्वभवः
३१
तत्रैव च पुरे तस्य, वयस्यः शस्यधीरभूत् । जिनदेवाभिधः श्राद्धः, शुद्धः श्रद्धाभृताशयः ॥३८३॥ जिनदेवोऽन्यदा रात्रिशेषे सस्मार जागरी । संसारे सारमेकं श्रीः, सर्ववाञ्छितसाधिका ॥३८४।। लक्ष्मी विना नरो लोके, सर्वथैव न रोचते । यथा जीवं विना वर्म, विना वा ब्रह्म सद्यतिः ॥३८५॥ गत्वा देशान्तरं तस्मात्, प्रयत्नादर्जयामि ता[म्] । पूरयित्वा च सर्वेषामाशाः कुर्वे स्थिरं यशः ॥३८६।। कदाचन पुनर्दैवाद्विदेशेऽवस्थितस्य मे । मृतिर्भवेत्तदा पुण्यहीनस्य ननु का गतिः ? ॥३८७॥ स्ववयस्याय तद् द्रव्यमर्पयामि निजं यथा । ददात्येष सुपात्रेषु, श्रेयोऽमुत्र च मे भवेत् ॥३८८।। चिन्तयित्वेति दीनाराऽयुतं न्यस्य सुहृत्करे । प्रोचे देशान्तरं यामि, भवान् दद्यादिदं धनम् ॥३८९।। अस्य पुण्यस्य षष्ठोंऽशस्तवे'त्याभाष्य सोऽचलत् । सोमोऽथ सप्रियो द्रव्यं, तद्दीनादौ ददौ मुदा ॥३९०॥ तया राया स्फुरच्छ्रद्धः, कुर्वाणः पात्रसत्कृतिम् । सोमोऽपि सुकृतं प्राप, शशिशुभ्रं यशोऽपि च ॥३९१।। परद्रविणदानेऽपि, दातुर्माहात्म्यमुल्लसेत् ।। यच्छन् पाथोधिपाथोऽपि, किं न स्यादुन्नतोऽम्बुदः ? ॥३९२॥
१. भागः ।