________________
श्रीअजितप्रभुचरितम् सर्ग:-१ कदाचिदवजानन्तस्तं वणिक्त्वान्महीश्वरम् । प्रत्यन्तपार्थिवाः स्फारानीकव्यञ्चितभूतलाः ॥३७३॥ राज्यं जिघृक्षवोऽक्षामपौरुषाः परुषाशयाः । दुर्द्धरा रुरुधुर्भानु, पवनोद्भूतरेणुवत् ॥३७४।। युग्मम् ॥ मङ्गलोऽप्यगलद्धामा, निःसामान्यबलो बली । लीलयैव जिगायैनान्, पुण्यतेजो हि दुर्जयम् ॥३७५।। प्रतापतापितारातेर्भुवं तस्येति शासतः । जयशेखरनामाऽभूत्, तनयो विनयोज्ज्वलः ॥३७६।। अन्यदा समवासार्षीदुद्याने ज्ञानभास्करः । दुष्कर्मेभघटासिंहो, जयसिंहो महामुनिः ॥३७७।। वनपालमुखाज्ज्ञात्वा, तमायान्तं नराधिपः । गत्वा नत्वा च शुश्राव, विपाकं पुण्य-पापयोः ॥३७८॥ देशनान्ते च पप्रच्छ, 'भगवन्नत्र जन्मनि । भाटकेन बभूवेदं, कुतो मे पाणिपीडनम् ? ॥३७९।। दोषोज्झिता च कान्ता मे, कुतोऽभूलक्ष्मभाजनम् ? । संशीतिव्रततिव्रातं, छिन्ध्यमुं ज्ञानपशुना' ॥३८०॥ अथाऽवोचत स ज्ञानी, 'भरतेऽत्रैव विद्यते । क्षितिप्रतिष्ठितं नाम, पुरं श्रीभरभासुरम् ॥३८१॥ सोमचन्द्राभिधो धर्मी, तत्राऽऽसीत् कुलपुत्रकः । श्रीदेवी दयिता तस्य, भर्तृभक्तिविभूषिता ॥३८२।। १. समीपवर्तिनृपाः । २. संशयवल्लीसमूहम् ।