SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा ३७ लावण्यसलिलं पौर्यः, पुरं प्रविशतोस्तयोः । सतृष्णं विस्मयस्मेरनयनाञ्जलयोऽधयन् ॥३६३॥ दध्यौ धरापतिधिग् धिग्, नृशंसो धीसखः कुधीः । स्वामिद्रोही मम सुतां, वृथा दोषाददूषयत् ॥३६४॥ नृपोऽमात्यं सतनयं, हन्तुं सिंहमथाऽऽदिशत् । मङ्गलश्च तदाऽवादीत्, करुणाकेलिमन्दिरम् ॥३६५॥ 'देवाऽयं तातदेश्यो मे, सचिवो मुञ्च मुञ्च तत् । मा वधीर्मा वधीरेनं, सन्तोऽसत्स्वपि वत्सलाः' ॥३६६।। तेन जामातृवचसा, महीशोऽतिचमत्कृतः । देशान्निर्वापयामास, मन्त्रिणं पापसत्रिणम् ॥३६७॥ इहाप्यन्यायतो दुःखं, लभन्ते देहिनश्चिरम् । परत्र यत्तु दुःखं तत्, केवली वेद केवलम् ॥३६८॥ मङ्गलो मातापितराववन्तीतो नृपाज्ञया । आनाय्य न्याय्याचरणस्तस्थिवान् सप्रियः सुखम् ॥३६९॥ अन्येधुर्नृपतिः प्रेत्यसुखावाप्तिस्फुरन्मतिः । मङ्गलाय प्रदाय स्वं, राज्यं स्वाराज्यसन्निभम् ॥३७०॥ शीलभद्रगुरूपान्तेऽत्यन्तसंविग्नमानसः । उपाददे परिव्रज्यां, पापपन्नगजाङ्गुलीम् ॥३७१॥ युग्मम् ॥ भूपोऽथ मङ्गलो नीतिप्रवणः पर्यतोषयत् । प्रजाः करैः सुमृदुभिर्यथा सोमः कुमुद्वतीः ॥३७२॥ १. क्रूरः । २. पितृसमः । ३. स्वर्गराज्यसमानम् । ४. श्लोकेऽस्मिन् शब्दश्लेषेणोपमा दर्शिता, राज्ञः पक्षे 'करैः' = राजग्राहँर्भागैः, चन्द्रस्य पक्षे 'करैः' = किरणैः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy