________________
श्रीअजितप्रभुचरितम् सर्गः-१
स्वस्थानज्ञापनार्थं च, प्राज्ञे ! सङ्केतमार्पय[म्] । ततः प्रिये ! त्वमप्याविश्चकर्थ स्वमतिप्रभाम्' ॥३५३॥ अथ [सिंहः पुनः कृत्वा, तां नृवेषां विचक्षणः । नीत्वाऽवन्तीशसविधे, सर्वं [त]द्वृत्तमाख्यत ॥३५४|| अस्याः शीलमहो ! शुद्धमहो ! धाष्ट्र्यं च मन्त्रिणः । इति ध्यायन्नृपः प्रोचे, 'वत्से ! भज निजं पतिम्' ॥३५५।। ततोऽवन्तीश्वरानुज्ञां, समवाप्य वधूवरम् । तद् ययौ प्रवरामोदसुन्दरं श्रेष्ठिमन्दिरम् ॥३५६।। अथ श्रेष्ठी निजावासे, दशाऽहानि व्यधापयत् । महानन्दददद्गीतनृत्यवाद्यैर्महामहान् ॥३५७।। श्रेष्ठ्यादिकाननुज्ञाप्य, चम्पां सिंहस्तु जग्मिवान् । 'क्व तनूजेति' राज्ञोक्तः, सर्वं व्यक्तमुवाच च ॥३५८|| समार्पयच्च तत् सैन्यं, नृवेषं चापि भूभुजे । सोऽपि प्रमुमुदे बाढं, स्वसुतामहिमश्रुतेः ॥३५९।। दध्यौ चास्या अहो ! शीलमहो ! शक्तिरहो ! मतिः । अहो ! स्वदयिते भक्तिरहो ! दोषविमुक्तता ॥३६०॥ ततो नृपः पुनः सिंह, प्रहित्य प्रियसंयुताम् । आनाययत् सुतामुत्कस्तं जामातरमीक्षितुम् ॥३६१।। वधूवराविमौ वीक्ष्य, मूर्त्ताविव रतिस्मरौ । साफल्यं नेत्रयोर्मेने, दृष्टदृष्टव्ययोर्नृपः ॥३६२।।
१. उत्कण्ठितः।