SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा , ‘विवाहे कान्त ! मे तातस्तदा यन्मङ्गलेषु ते । अददिष्ट समस्तं तत्, साम्प्रतं प्रकटीकुरु ॥ ३४२ ॥ यथैष सिंहनृपतिस्तातप्रतिनिधिर्मम । तद्वीक्षणात् क्षणाद् वृत्तमिदं सर्वं विबुध्यते ' ॥३४३|| मङ्गलोऽथाऽवदत् ‘सिंहः, श्वशुरो मन्निकेतनम् । गच्छतु स्वच्छधीर्वस्तु, तत् सर्वमपि पश्यतु' ॥३४४॥ सिंहक्ष्मापोऽपि साश्चर्यः प्राप्तवांस्तस्य मन्दिरम् । धनेन भीतभीतेन, सत्कृतो न्यगदन्मृदु || ३४५॥ 'श्रेष्ठिपुङ्गव ! मा भैषीर्मा भैषीर्यत्त्वदात्मजः । चम्पाधिपतिजामाता, मा ताम्य स्वाम्यसि ध्रुवम् ॥३४६|| कुमारो यः स्नुषा सा ते, हेतोः पुंवेषधारिणी । चम्पाधीशस्य दुहिता, दिष्ट्या दृष्टोऽद्य तत्पतिः ॥३४७॥ तस्याः पित्रा विवाहे यद्, [य]द् ददे तव सूनवे । तत् सर्वं दर्शयाऽस्माकं चेतः प्रत्येत्यरं यथा ॥ ३४८ ॥ श्रेष्ठी हृष्टोऽथ सिंहाय, समस्तं वस्त्वदर्शयत् । तच्च चम्पेशनामाङ्कं दृष्ट्वा सोऽपि प्रतीतवान् ॥३४९|| सौधप्राप्तेन सिंहेनाऽनुज्ञाताऽथ स्वरूपभृत् । त्रैलोक्यसुन्दरी पत्युः पादौ नत्वेत्थमभ्यधात् ॥३५०|| " I ' तदा मां जीविताधीश !, च्छलयित्वा भवान् ययौ वाचामगोचरं दुःखमन्वभूवमहं पुनः ' ॥३५१ ॥ मङ्गलोऽथाऽवदत् 'कान्ते !, जज्ञे तद्दैवजृम्भितम् । अतः परं पुनर्दुःखराशेर्दत्तो जलाञ्जलिः ॥३५२॥ ३५
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy