________________
श्रीअजितप्रभुचरितम् सर्ग:-१ 'कल्पिताऽन्या च पृथ्वीशसूनो ! द्वेधा कथा स्मृता । भूयोऽन्याऽपि द्विधा स्वानुभूताऽन्याचरिताऽपि च ॥३३१॥ तद् ब्रूहि का कथा कथ्या ?', कुमारोऽप्याह सस्मितम् । 'वद काञ्चित् स्वानुभूतां, चमत्कारकरी कथाम् ॥३३२॥ कथा हि सा चमत्कारो, यच्छ्रुतेरेव विस्फुरेत् । स्युः सत्यं मोदकास्ते हि, येऽवन्तीवारियोगजाः' ॥३३३॥ पुनः सङ्केतसंवेधात्तां निर्णीय निजां प्रियाम् । सिंहे शृण्वति स स्वीयवृत्तं विस्मयकृद् भृशम् ॥३३४।। गीर्वाणपथगी:पूर्वोद्भूतवात्यापहारतः । आरभ्य स्वपुरावाप्तिः, प्रोचे कन्याविवाहयुक् ॥३३५॥ युग्मम् ॥ तन्निशम्य कुमारोऽपि, रुषाविष्ट इवाभ्यधात् । 'असम्बद्धप्रलापी भोः !, कोऽयं किल पिशाचकी ? ॥३३६।। वात्ययाऽपहृतिः स्वस्य, कोऽयं तादृक् च मन्त्रिणः । त्यागो वध्वाश्च तादृश्याः, कथं श्रद्धीयते न्वहो ! ॥३३७॥ भो ! भोस्तदस्मत्सचिवदूषकं धरतैतकम्' । इत्थं कुमारे वदति, सच्छात्रपाठकोऽनशत् ॥३३८।। गत्वा च धनदत्तायाऽऽचख्यौ'युष्मत्सुतः कथाम् । तामलापीद्यया सोऽस्ति, धृतो नष्ट्वा गता वयम्' ॥३३९॥ श्रेष्ठी व्याकुलचेतस्कस्तनयापायशङ्कया । प्राभृतं सज्जयामास, गन्तुं राजकुलं प्रति ॥३४०।। अथ नारीनरो मालोपरि मङ्गलमादरात् । नीत्वाऽऽसने चासयित्वा, सिंहप्रत्यक्षमूचिवान् ।।३४१।।