________________
दाने मङ्गलकलशकथा
ततस्तथा तैः सर्वेषां, मोदकाः परिवेषिताः । यथा मङ्गलकलसमसम्प्राप्ताः समापिताः ॥३२१॥ कुमारोऽभ्यधिताऽथैतान्, 'प्राक्तना यदि मोदकाः ।
न सन्त्यसौ (स्मै) तद्दीयन्तां विशालावारियोगजाः || ३२२||
>
त एवाऽस्मै हि रोचन्त' इति श्रुत्वाऽथ विस्मितः । मङ्गलो व्यमृशद्वक्ति, कुमार: किमिदं वचः ? || ३२३ || नृरूपं किन्नु बिभ्राणा, नेयं भवति मत्प्रिया ? | अन्यथा घटतेऽमुष्मिन्नीदृग्गीः सम्भवः कथम् ? || ३२४|| इति ध्यायन् कुमारेण, सीमा प्रेक्षावतां प्रियः । स एवं स्वोचितैरेवं, सदक्रियत वस्तुभिः || ३२५ ॥ भोजनान्तेऽथ तांश्छात्रांस्ताम्बूलाद्यैरमानयत् । कुमारः सद्धियां धाम, विशेषेण तु मङ्गलम् ॥३२६|| यथा यथाऽस्य सम्मानं, छात्रायैक्षन्त निर्भरम् । तथा तथा दुदुविरे, पङ्क्तिभेदो हि दुःसहः ॥३२७|| कुमारोऽध्यापकमथाऽवादीत् 'काञ्चित् कथामहम् । शुश्रूषुश्छात्रवदनात्, तदाऽऽज्ञापय कञ्चन' ॥३२८॥ अध्यापकोऽथ च्छात्राणां, सम्मुखं यावदैक्षत । तावत्तेऽसूयया क्रान्ताः स्मित्वा युगपदूचिरे ॥३२९||
'सम्मानमेवं लेभे यः स कथां वो वदिष्यति' । अध्यापकेरितोऽवादीत्, सोत्साहो मङ्गलस्ततः ॥ ३३० ॥
१. रोर्यः [ सि.हे.श. १ । ३ । २६ ] इति सूत्रेण 'रस्य यः' ।
,
३३