________________
३२
श्रीअजितप्रभुचरितम् सर्गः - १
अध्यापको निमन्त्र्यस्तत्, सर्वैश्छात्रैः समन्वितः । यथा तद्वृन्दमध्यस्थः, सोऽप्येति तुरगेश्वरः ॥ ३११ ॥ ततश्च तस्य हृदयं, ज्ञात्वाऽर्थ्यन्ते तुरङ्गमाः । क्रय-विक्रयहेतोर्यद्वस्तु बिभ्रति वाणिजाः' ॥३१२॥ न्यमन्त्रयत सिंहोऽपि, प्रत्यूषेऽध्यापकं द्रुतम् । छात्रव्रातवृतः सोऽपि, तत्राऽऽगाद् भूरिसम्मदः ||३१३॥ स्त्रीनरो मङ्गलं पश्यन्निमेषोज्झितदृग्युगः । पुलक स्वेद कम्पादिभावाकीर्णं वपुः दधौ ||३१४॥ कुमारशिक्षिताश्चाथ, भोजनार्थमसज्जयन् । जनसङ्ख्यात एकैकन्यूनं तत्राऽऽसनादिकम् ॥३१५॥ ततस्ते तुमुलोत्ताला, बालाश्चापलशालिनः । निविष्टेऽध्यापके सज्जासनेषु समुपाविशन् ॥३१६॥ यावन्मङ्गलकलसः, स्थैर्यस्थानं गुणोदधिः । वीक्षते तावदात्मार्थं, तत्र नाऽपश्यदासनम् ॥३१७॥ सव्याजं स्त्रीनरः स्वीयनरान् सेर्ष्यमंधाऽभ्यधात् । 'अभुक्त एव रे ! स्थास्यत्ययं किं पुरुषाग्रणी : ? ॥३१८॥ यद्यन्यदासनं नास्ति, न्यस्यतां तर्हि मामकम्' । इत्युक्ते ते तथाऽकार्षुरुपाविक्षच्च मङ्गलः ॥३१९॥ आसने महति क्ष्मापयोग्यस्थालादिसङ्गते । निषण्णोऽसौ तदा पङ्क्तेरन्तमप्यादिमादधौ ॥३२०||
१. 'अथ' इत्यर्थः ।