SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा त्रैलोक्यसुन्दरं चाप-कृपाण्यादिशुंभक्षरम् । दृष्ट्वाऽवन्तीपतिर्दध्रे, भूप्राप्तत्रिदशभ्रमम् ॥३०१ || अदात् सौधं च सन्मानपूर्वं तस्मै धराधवः । तस्मिन्नथ कुमारोऽपि, ससिंहस्तस्थिवान् सुखम् ||३०२|| अन्यदा गुप्तहृदयाऽऽकूतोऽसौ बहलद्रुमम् । सुनिर्मलजलं पूर्वदेशं तस्याः पुरो विदन् ॥ ३०३ ॥ धराधीशमनुज्ञाप्य, प्रासादे तत्र कारिते । सप्तभूमे महोत्साहः, प्रविवेश शुभेऽहनि ||३०४ || युग्मम् ॥ कदाचित् संश्रितो वातायनं त्रैलोक्यसुन्दरः । पय:पानाय तानश्वान्, गच्छतोऽपश्यदध्वनि ॥३०५॥ प्रत्यभिज्ञाय तान् धीमान्, बुभुत्सया तदीशितुः । प्रायुङ्क्त स्वनरान् ज्ञातवृत्तास्तेऽस्याऽगदन्निति ॥३०६|| 'चम्पापुरीतो मङ्गलकलसस्तुरगानिमान् । आनिनायेति' तच्छ्रुत्वा, कुमारः प्रत्यभाषत ॥३०७॥ 'क्व तिष्ठति स वाहेश: ?, किं करोतीति वित्त भोः !' । विदित्वाऽऽहुस्तेऽपि ‘गेहासन्नेऽभ्यस्यत्यसौ कलाः' ॥३०८|| तच्छ्रुत्वा निरणैषीच्च, स एवाऽयं मम प्रियः । यतितव्यं तथा किन्तु, सिंहः प्रत्येत्यदो यथा ॥ ३०९|| ध्यात्वेति चाऽभ्यधात् सिंह, 'तात ! क्रेष्याम्यमून् हयान् । ईशोऽमीषां कलाचार्यमाराधयति साम्प्रतम् ॥३१०॥ १. सुन्दरदेहम् । २. गुप्तहृदयाशयः । ३१
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy