________________
३०
श्रीअजितप्रभुचरितम् सर्ग:-१
तदूरीकृत्य सिंहोऽपि, गत्वा भूपं तथाऽवदत् । यथोन्मीलत्कृपः सोऽपि, तामाकार्यैवमब्रवीत् ॥२९१॥ वत्से ! स्वैरं वदाऽथैषा, ''वेषं तात ! मेऽर्पय' । इत्युक्त्वाऽजनि तूष्णीका, ततोऽन्तर्दध्यिवान् नृपः ॥२९२।। केनाप्यर्थेन महता, पुंवेषं याचते सुता । मम तन्नीतिविज्ञस्य, युक्तमेतत्समर्पणम् ॥२९३।। ध्यात्वेति भूपतिस्तस्यै, पुंवेषं प्रददौ मुदा । सिंहं च स्वप्रतिकृति, तस्या रक्षार्थमादिशत् ॥२९४॥ सुरक्षिता हि सुन्दर्यः, स्युः कुलस्य विभूषणम् । कलङ्केनाऽन्यथा नूनं, दूषयन्त्यमलं कुलम् ॥२९५।। पुनर्नृपोऽवदद् ‘वत्से !, भूयोऽप्याख्याहि किञ्चन' । सा स्माह 'तात ! गच्छामि, विशालां त्वदनुज्ञया' ॥२९६।। राजाऽपि ज्ञाततच्चित्ताशयः सानन्दमूचिवान् । 'वत्से ! व्रज परं शीलं, पायाः पापापहारकम्' ॥२९७।। शीलादपायविलयः, शीलात् सुकृतकेलयः । शाश्वतं भूषणं शीलं, शीलं महिममन्दिरम् ॥२९८।। अथो कुमारवेषा सा, नतभूपपदाम्बुजा । क्रमेणोज्जयिनीं प्रापत्, जयिनी बुद्धिसम्पदा ॥२९९॥ अवन्तीशोऽपि चम्पेशसुतं त्रैलोक्यसुन्दरम् । विज्ञायाऽऽयान्तमभ्येत्य, महैः प्रावेशयत् पुरीम् ॥३००॥