SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा किं करोमि ? पुरः कस्य, दुःखपूरं निजं ब्रुवे ? । कमाश्रयामि ? कं वोपालम्भे ही भाग्यवर्जिता ? ॥२८१॥ दुःखानि मां समायान्तु, सर्वाण्यपि समन्ततः । वितथस्तु कलङ्कोऽयं, किमभूदतिदाहकः ? ॥२८२॥ मातः ! पितः ! कथमियं, निर्मन्तुर्दूष्यते सुता । यदि वाऽयं न दोषो वां, विधेः किन्तु दुरात्मनः ॥२८३।। रे रे दुर्दैव ! निर्दोषान्, दूषयन्नेनसोऽपि किम् । न बिभेति भवान् ? यद्वा, निघुणे का विचारणा ? ॥२८४॥ याऽहं सर्वत्र सर्वेषां, जज्ञे वत्सलतास्पदम् । तस्या ममाऽधुना वाचं, धि[क] कश्चिन्न शृणोत्यपि ॥२८५॥ चाण्डालपाटक इव, मात्राद्यैरपि मेऽन्तिकम् ।। दूरेणाऽत्याजि दुर्दैव !, किमिदं भवता कृतम् ? ॥२८६।। केनोपायेन स प्रेयान्, ज्ञास्यते गुणसेवधिः । कथङ्कारं कलङ्केन, विमुक्ता भवितास्मि च ॥२८७॥ इति चिन्ताचितस्वान्ता, कदाचित् सिंहभूपतिम् । भूपमान्यं प्रणम्योचे, विनयाद्रचिताञ्जलिः ॥२८८॥ 'त्वं मे तातसमस्तातप्रीतिपात्रं च वर्त्तसे । तत्कृयां कृत्वा मत्कार्ये, तातं विज्ञपयैतकत् ॥२८९।। देव ! त्वत्पुत्रिका याऽस्ति, दैवादोषस्य भाजनम् । सुप्रसन्नस्य ते सैकां, विज्ञप्ति प्रविधित्सति' ॥२९०।। १. युवयोः।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy