SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २८ श्रीअजितप्रभुचरितम् सर्गः - १ तन्मे तनयसाम्राज्यावाप्त्याशाकल्पवल्लरी । समूलकाषं कषिता, क्षणाद्दुर्दैवदन्तिना' ॥२७१॥ श्रुत्वेति खेदविवशो, विशामीशः कनीमिमाम् । तादृग्वात्सल्यवसतिमप्यदृश्याननां व्यधात् ॥२७२॥ भूपाज्ञया जनन्याऽपि, साऽवज्ञाविषयीकृता । दध्यावाः ! कीदृशः कर्मविपाको मेऽतिदारुणः || २७३ || मया पूर्वभवे नूनं, निर्दोषः कोऽपि दूषितः । कर्मोपतस्थे तदिदं, कोऽपि भुङ्क्ते हि नाऽकृतम् ॥२७४|| अयं खलु प्रियो नैव, ममाऽभाग्यैः स दूरित: । उज्जयिन्यम्बुना यो हि, मोदकान् मोदकान् जगौ ॥ २७५॥ दम्भारम्भममुं कञ्चिद्, दुराचारस्य मन्त्रिणः । शङ्के वक्तुं तु नो शक्ता, को हि मन्येत मद्वचः ? || २७६ || ज्योतिष्केण तथा देहलक्षणैर्वेद्मि यन्मम । प्रियोऽवधिर्भाग्यभाजां सौभाग्यैकनिधिर्भवेत् ॥ २७७॥ भाग्यैकलभ्यः सोऽवन्त्यामस्ति मन्ये हृदीश्वरः । तस्मादौपयिकं चिन्त्यं, भाग्याविर्भावकारणम् ॥२७८॥ ध्यात्वेत्यन्येद्युरम्बां साऽवादी [ न्] 'मातस्तथा कुरु । यथैकदा तातमीक्षे, किञ्चिद् वच्मि च वाञ्छितम्' ॥२७९॥ मातेत्युक्ताऽपि किञ्चिन्न, यदा प्रत्युत्तरं ददौ । तदाऽतिदुःखदूना सा, दीनास्या पर्यचिन्तयत् ॥ २८०॥ १. 'दध्यौ आः' इति सन्धिविश्लेषः । २. उपायः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy