SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा २७ अथाऽचिरेण मेधाविमूर्द्धन्यः सकलाः कलाः । सम्प्राप्य कुमुदं पुष्णन्, सोऽभात् सोम इवाऽपरः ॥२६१॥ इतश्च वाससदने, प्रजिघ्ये तेन मन्त्रिणा । धृतोद्वाहिकनेपथ्यो, रोगरुग्णनिजाऽङ्गजः ॥२६२॥ पल्यङ्कसङ्गिनं प्रेमालापिनं साऽपि तं क्षणात् । विज्ञायाऽन्यतरं हित्वा, निरयासीद् गृहाद् बहिः ॥२६३।। पुरः सखीनां चाचष्ट, 'कष्टं कष्टं क्व स प्रियः । कर्पूरपूरसुरभिरामगन्धिरयं क्व च ?' ॥२६४।। सख्यो जजल्प 'भ्रान्ताऽसि, कुतः परनरागमः ?' । साऽब्रूत 'पश्यताऽऽगत्य, भ्रान्तियुष्माकमेव हि ॥२६५।। ताभिस्तथाकृतेऽबोधि, तत्स्वरूपं यथास्थितम् । धृत्वा स्वपार्श्वे प्रातः सा, मातृगेहमनायि च ॥२६६॥ अथाऽमात्यः प्रगे राजसदने व्याजवारिधिः । पूच्चकार परं खेदं, नाटयन् कद्वदाग्रणीः ॥२६७।। 'देवाऽभाग्यवतां सीमा, मुषितो मुषितोऽस्मि हा । ईप्सुः सुखश्रियं दुःखसागरे प्रत्युताऽपतम्' ॥२६८॥ 'केनाऽसि मुषितो मन्त्रिन् !, किं ते दुःखमिदं नवम् ?' । ससम्भ्रमं महीशेनेत्युक्तो मन्त्रिब्रुवोऽब्रवीत् ॥२६९।। 'प्रभो ! भवत्सुतापाणिस्पर्शमात्रेण मत्सुतः । तादृग्दृष्टविशिष्टाङ्गोऽप्यभूत् कुष्ठगलत्तनुः ॥२७०॥ १. कुमन्त्री।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy