SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्ग :- १ २६ धनं देशान्तरानीतं, तान् पञ्चापि [च] वाजिनः । न्यवीविशद् गृहस्यान्तर्मङ्गलो मङ्गलालयः ॥२५१॥ स्वावासं वासवावाससदृशं स व्यधापयत् । भाग्यप्राग्भारलब्धायाः, किमसाध्यं श्रियः खलु ? || २५२ || विधत्तेऽनर्थशान्ति श्रीर्जगत्संवननं तथा । दारिद्यमारणं दोषश्रेणेद्वेषमपि द्रुतम् ॥ २५३ ॥ विपदुच्चाटनं सौख्यपुष्टिं सृष्टिं गुणावलेः । खल[वि]स्रम्भं तदसौ, महाविद्यासमा स्मृता ॥२५४॥ युग्मम् || यः पद्मवासया गाढानुरागेण कटाक्षितः । ईर्ष्ययेवाऽपसर्पन्ति, सततं विपदस्ततः ॥ २५५ ॥ श्रीरेव स्तूयतामेका, सर्वैरन्यैः सुरैरलम् । यन्महिम्ना मघवाद्या, अपि श्लाघ्या जगत्त्रये ॥२५६ ॥ अथ चाऽनुज्ञया पित्रोः, सततं विनयोज्ज्वलः । आनन्दयन्नुपाध्यायमध्येतुं प्रावृत[त्] कृती ॥ २५७॥ विद्या भोगकरी पुंसां, विद्या सत्कीर्त्तिकारणम् । बन्धुर्विदेशे विद्यैव यतन्ते तत्र तद् बुधाः || २५८ ।। 1 कार्याकार्यविचारं नो, विद्याद् राभसिको भवेत् । विद्याविहीनसूनू[श्च], वर्तते तत् पशूपमः ॥२५९॥ ये बाह्ये लोचने ताभ्यां, बाह्यं वस्तु निरीक्ष्यते । अन्तस्तत्त्वेक्षणे त्वेकं, शास्त्रमन्तरनेत्रति ॥२६०|| १. आन्तरनेत्रमिवाचरति ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy