________________
दाने मङ्गलकलशकथा
ततश्चेयमदाच्चन्द्र-लवङ्गैलादिबन्धुरम् । ताम्बूलं प्रेयसे प्रेमस्थूलंकरणमुत्तमम् ॥२४१॥ तदा नरैः पुनरसौ, सञ्जितः सादरं प्रियाम् । 'वर्णोंगेहं गमिष्यामि, तिष्ठे'त्याभाष्य निर्ययौ ॥२४२॥ अवन्त्याः पथि विन्यस्तं, तैनरैस्तद्धयादिकम् । अदर्श्यताऽस्मै निस्सीमगाम्भीर्यजलराशये ॥२४३।। एकं रथं सारभृतं, गृहीत्वा चतुरो हयान् । न्ययोजयदबध्नाच्च, हयमेकं स पृष्ठतः ॥२४४॥ सत्कृत्य शेषविभवैस्तान्नरान् स नरोत्तमः । पृष्ट्वाऽध्वग्राम-नगरनामादि प्रास्थित क्रमात् ॥२४५॥ प्राप्तोऽवन्तीं द्रुतं स्वीयमावासं प्रविशन् रथी । पितृभ्यामनभिज्ञातश्चिल्लाभ्यां भृशरोदनात् ।।२४६॥ 'राजपुत्र ! वणिग्वेश्म, नेक्षसे किं विशस्यहो ? । अध्वा पुरो न निर्याती'त्युक्तोऽनंसीत्तयोः पदान् ॥२४७॥ युग्मम् ।। अथो मातरपितरावभिज्ञाय निजं सुतम् । कण्ठे विलग्याऽरुदतां, रोदयन्तौ पुरीमपि ॥२४८।। तयोश्च पृच्छतोः पुत्रः, स्ववृत्तान्तं यथातथम् । अचीकथदतूषिष्टां, व्यस्मेषातांतरां च तौ ॥२४९॥ मन्यमानौ बृहद्भाग्यभङ्गीसङ्गिनमङ्गजम् । उत्सवं व्यधिषातां च, तदा जन्मोत्सवाधिकम् ॥२५०॥ १. विष्ठागृहम् ।