________________
२४
श्रीअजितप्रभुचरितम् सर्ग:-१ प्राचीनबर्हिरर्थात् किं, पौलोमीपरिरम्भभाक् ? । रोहिणीयोगमापन्नः, किं वा पीयूषदीधितिः ? ॥२३१॥ इत्याद्याकर्णयन् कर्णसुखं पौरवचश्चिरम् । प्राप च्छद्मखनेः पद्मवदनः सद्म मन्त्रिणः ॥२३२॥ वासगेहेऽथ पल्यङ्के, निषण्णं तं सवल्लभम् । अन्तरङ्गा [नरा]स्तूर्णं, गमनार्थमसञ्जयन् ॥२३३॥ वपुश्चिन्तामिषाद्यावदसौ सद्भूतसङ्गरः । निर्यात्यनुययौ तावज्जलपात्रकरा वधूः ॥२३४॥ कृताङ्गचिन्तं कान्तं सा, विचिन्तं चतुराऽबुधत् । अभ्यधाच्च 'क्षुधा तृड् वा, किमु त्वां नाथ ! बाधते ?' ॥२३५॥ उमित्युक्तवति प्रेयस्यथ मातृनिकेतनात् । सध्रीच्याऽऽनीनयद् वेगान्, मोदकान् सलिलं च सा ॥२३६।। मङ्गलोऽथ तया साधू, मोदकांश्चित्तमोदकान् । सुधातुलं जलं चास्वादयनेवमभाषत ।।२३७।। 'अमी सान्वयनामानो, भवेयुर्मोदकास्तदा । अवन्तीनगरीनीरसम्बन्धं चेदवाप्नुयुः' ॥२३८।। कलशेन सलीलं तत्, स्वस्थानज्ञापनेच्छया । गूढमुक्तं निशम्यैषा, दध्यौ विस्मयभाग् भृशम् ॥२३९।। आर्यपुत्रः पुरीं कस्मात्तां योजनशतान्तराम् । अस्मार्षीत्तत्र वा मातृकुलमस्य भविष्यति ॥२४०॥ १. आप्ताः । २. सत्यप्रतिज्ञः । ३. विशिष्टचिन्तायुक्तम् ।