SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा सदशोज्ज्वलसंवीतवासाः सारविभूषणः । विन्ध्यशैलानुजमिव, समारूढो मतङ्गजम् ॥२२१।। विविधातोद्यनिहादपूरितोडुपथोदरः । मायूरच्छत्रवृन्देन, दर्शयन्नद्भुतां श्रियम् ॥२२२।। मागधेषु पठत्सूच्चैर्निर्मलान् विपुलान् गुणान् । लोलनेत्रासु परितो, लीलास्फुरदुलूलुषु ।।२२३।। अवाप्य मण्डपं द्वारि, समुत्तीर्णो मतङ्गजात् । गृहीता? मातृगृहं, श्वश्वा निन्ये विधिज्ञया ॥२२४॥ पञ्चभिः कुलकम् ।। हस्तालेपे प्रवृत्तेऽथ, शुभलग्नोदये विदः । धन्यम्मन्याया धात्रीशकन्यायाः करमाददे ॥२२५॥ अथो वेदिगृहे भ्राम्यन्, परितो जातवेदसम् । भूपाल्लेभे दुकूलाद्यं, विविधं मङ्गलेषु सः ॥२२६।। तथाऽप्यसौ कृती वध्वा, हस्तं यावन्मुमोच न । तावद् भूपोऽवदद् ‘वत्स !, किञ्चिद्याचस्व वाञ्छितम्' ॥२२७॥ पञ्चवल्लभवाहेभ्यो, वाहपञ्चकमुत्तमम् । ययाचे सोऽपि लेभे च, नृपानन्दस्य तत् कियत् ? ॥२२८॥ ततः प्रियान्वितोऽचालीत्, सचिवावसथं प्रति । वीक्षाविस्मेरनयनैः, पौरैरिति च तुष्टुवे ॥२२९।। क्षीरोदतनयाशाली, किमयं पुरुषोत्तमः ? । सर्वः किमथवा सर्वमङ्गलासङ्गमञ्जुलः ? ॥२३०॥ १. लग्नस्थानम् । 'मायरु' इति भाषायाम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy