________________
२२
श्रीअजितप्रभुचरितम् सर्ग:-१
कलशोऽप्याह 'शरणं, शरण्योऽर्हन् ममाऽधुना । भवतु स्वःश्रियां हेतुर्धर्मश्च तदुदाहृतः' ॥२१०।। ततोऽवदन्नरा आप्ताः, सचिवं पेशलोक्तयः । 'निर्मन्तुः क्षीरकण्ठोऽयं, मुधा किं मार्यते विभो ! ? ॥२११॥ उररीकारयिष्यामो, वयमेतं भवन्मतम्' । मन्त्रिणं तेऽभिधायेति, बालमालपिषुर्यथा ॥२१२॥ 'मा स्म भो ! म्रियथा मन्त्रिमतं मन्यस्व सन्मते ! । जीवन्नरो भद्रशतं, पश्यतीति न किं श्रुतम् ?' ॥२१३।। बालोऽथ दध्यिवान् केयमहो ! विधिविचित्रता । क्व सा पुरी विशालाख्या ?, ममेहागमनं क्व वा ? ॥२१४।। क्व वा वातेनोत्पतनं ?, तद्वा क्व व्योमभाषितम् ? । तदिदं खलु भाव्येव, परं स्वार्थो विधीयते ॥२१५।। ध्यात्वेत्यभाषताऽमात्यं, 'मया चेत् कारयिष्यसि । स्वकार्यमार्यवर्यैकं, मत्कार्यमपि तत्कुरु' ॥२१६।। 'वद कुर्वे किमि'त्युक्ते, मन्त्रिणा मङ्गलोऽभ्यधात् । 'वसुधाधिपतिर्वस्तु, मङ्गलेषु ददाति यत् ॥२१७॥ तन्मे देयं विशालाध्वगतं कार्यं च पूरुषैः' । मन्त्र्यपि प्रतिपद्यैतत्, स्वकृत्येषु प्रवृत्तवान् ॥२१८।। अखण्डशोभं स्व:खण्डश्रीविडम्बिनमादरात् । मण्डपं मेदिनीशोऽपि, निजभृत्यैर्व्यधापयत् ॥२१९।। अथाऽऽचारप्रवीणाभिः, कुलस्त्रीभिः कुमारकः । सहर्षं कारितस्नानश्चारुचन्दनचर्चितः ॥२२०॥