SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा तद्रूपमुदितो मन्त्री, गुप्तमाप्तैरकारयत् । स्नानाशनादिकं तस्य, रक्षन् गेहाबहिर्गतम् ॥२००॥ यामिकाः सचिवादिष्टा, नाऽत्यजस्तस्य सन्निधिम् । देश-ग्रामादिनामानि, पृच्छतोऽपि न चाभ्यधुः ॥२०१॥ बन्धुवत् सत्कृतिः किं मेऽरिवत् किं वा नियन्त्रणम् । इति विस्मितमन्येद्युस्तमभाषत धीसंखः ॥२०२।। 'किञ्चिन्मा वत्स ! विस्मेष्ठाः, सत्कुर्वे त्वां स्वकार्यतः । यतः स्वार्थं विना बन्धा(न्धुम)पि नाऽऽद्रियते जनः' ॥२०३॥ 'मया बालेन कः स्वार्थ ?', इति तेनोदितः पुनः । मन्त्र्यूचे ‘देहि राट्कन्यां, विवाह्य मम सूनवे' ॥२०४॥ बालो जगाद ‘मा वादीस्तातैतत् पापकद्वचः । अकार्यं हि न कुर्वन्ति, मरणेऽपि विवेकिनः ॥२०५॥ शास्त्रेषु नानादानानि, वर्णितानि विचक्षणैः । दानं पाणिगृहीत्यास्तु, नैवोक्तं क्वचिदास्तिकैः' ॥२०६॥ श्रुत्वेति न्यगदन्मन्त्री, क्रोधारुणविलोचनः । 'मद्वाचं चेन्न कर्तासि, तदा मारयितास्मि रे' ॥२०७॥ स स्माह ‘धीनिधे ! यत्ते, रोचते कुरु तज्जवात् । नयाध्वस्थस्य नो मे भीमरणाद् ध्रुवभाविनः' ॥२०८।। करवालं ततः कोशादाकृष्य निशितं द्रुतम् । मन्त्रिणाऽसौ रुषाऽभाषि, 'रेऽभीष्टां देवतां स्मर' ॥२०९॥ १. मन्त्री । २. पत्न्याः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy