SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २० श्रीअजितप्रभुचरितम् सर्गः-१ तत्र स्नातः पीतपयाः, क्रूरश्वापदशङ्कितः । न्यग्रोधद्रुममारोहदसौ पालीविभूषणम् ॥१९०॥ तदा सूर्योऽपि तदुःखप्रतीकाराक्षमः किल । मन्दौजाः कालवशतो, हिया द्वीपान्तरं ययौ ॥१९१॥ सवितर्यापदं प्राप्ते, यज्जजृम्भे कुपुत्रवत् । अन्धकारः किल श्यामोऽश्लाघ्यस्तेनैनसाऽभवत् ॥१९२॥ ससोमतारकाव्याजादिनास्ते दुःखदूनया । दिनश्रिया हारमुक्ता, विष्वक् क्षिप्ताः सनायकाः ॥१९३॥ बभुदिनपतेरस्ते, तारकास्तारकान्तयः । प्रमोदन्ते खलु क्षुद्रा, महतामापदुद्गमे ॥१९४॥ तमोनिदानं सच्चक्राभीष्टा सदृष्टिलोपिनी । दोषा दोषास्पदं मत्तपोषावत् प्रसृताऽभितः ॥१९५।। क्वायं वद्रुमस्तच्च, क्व सौधमिति चिन्तयन् । उदीच्यामैक्षतोड्योतं, दिक्षु चक्षुः स विक्षिपन् ॥१९६।। ततः किञ्चि[द्वि]लीनातिवटादुत्तीर्य सत्वरम् । चलन्नुद्द्योतमुद्दिश्य, स्थानपालान्तिकं गतः ॥१९७|| शी[ता] नैं दुर्मदास्ते तं, तपन्तं तत्र जागृवौ । निघ्नन्तो यष्टि-मुष्ट्याद्यैरश्लीलवचसोऽहसन् ॥१९८।। मन्त्रिशिष्टः स्थानपालस्तथा दृष्ट्वा निवार्य तान् । तापयित्वा रहः क्वापि, गुप्तं [तं] मन्त्रिणे ददौ ॥१९९।। १. सूर्यास्ते । २. रात्रिः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy