SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा 'कुमारः सोऽयमुर्वीशकन्यकां भाटकेन यः । परिणेतेति'तं देवी, व्योमस्थाऽश्रावयन्नरम् ॥१८०॥ सोऽथ दध्यावसम्बद्धमनिरीक्षितवक्तृकम् । चित्रकृत् किमिदं वाक्यं, वक्तव्यं तत्पितुः पुरः ॥१८१।। इति ध्यायन् गृहं प्राप्तो, व्यस्मार्षीत् केलिलालसः । द्वितीयेऽप्यह्नि चाऽ श्रौषीदारामस्थस्तथैव तत् ॥१८२।। अद्य वप्तुर्वदिष्यामि, निश्चितं चिन्तयन्निति । तत्क्षणं वात्यया प्रादुर्भूतयोत्पाटितोऽम्बरे ॥१८३।। तया च तूलवन्नीयमानोऽसौ मानसान्तरे । चतुरश्चिन्तयामास, प्राप्तसीमा सचेतसाम् ॥१८४॥ दुर्निवारो विधिरहो !, यत् स्वप्नेऽपि न चिन्त्यते । विदधाति क्षणादेव, तच्छुभाशुभमङ्गिनाम् ॥१८५।। मुक्तोऽथ क्षणतश्चम्पाऽऽसन्नाटव्यामटन् सरः । अपश्यद् दृश्यहंसालिशालिपालिलसद्रुमम् ॥१८६।। क्षीरसागरसारण, परोपकृतये विधिः । यद्विधाय ध्रुवं यानहंसान् रक्षाकृतेऽमुचत् ॥१८७।। स्मितारविन्दसन्दोहमरन्दार्पणर्पिताः । अलयो मधुरारावा, जगुर्यस्याऽनिशं गुणान् ॥१८८॥ स्वादुस्वामृतपूरेणाऽमृतकुण्डं विजित्य यत् । नशर्त स्मेरपद्मास्यं, लोलकल्लोलहस्तकैः ॥१८९॥ ___ १. पितुः । २. 'ननु निस्मेर....' इति पु.प्रे. ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy