________________
१८
श्रीअजितप्रभुचरितम् सर्गः-१ ऊचे च 'वत्स ! तुष्टाऽस्मि, क्षिप्रमिष्टं निवेदय' । ततोऽसौ हर्षितः क्लृप्ताञ्जलिर्देवीं व्यजिज्ञपत् ॥१७०॥ 'प्राप्तव्याघ्रतटीन्यायो, देवि ! पृथ्वीशशासनम् । तव प्रसादादुल्लाघे, सुते निर्वाहयाम्यहम्' ॥१७१॥ देव्यप्यूचे 'न समर्थाऽस्मि, भवत्पुत्राऽऽमयक्षये । यस्मान्निकाचितं कर्म, भोग्यं तीर्थकरैरपि' ॥१७२।। विषण्णो न्यगदन्मन्त्री, 'त्वत्प्रसादेऽप्यहं हहा । रवावप्युदिते चक्षुहीनवन्न विशेषभाक् ॥१७३।। समानय ततो देवि !, नरं कञ्चन सुन्दरम् । भाटकेन विवानां, यो दद्यान्मम सूनवे' ॥१७४।। देवी जजल्प 'यः कश्चिदस्या एव पुरो बहिः ।। मन्दुरारक्षक्लृप्ताग्नौ, तृतीयेऽह्नि कुमारकः ॥१७५।। शीतार्तोऽभ्येति रात्रौ तं, गुप्तमानाय्य कन्यकाम् । विवाहये'रिति प्रोच्याऽन्तर्दधे देवता क्षणात् ॥१७६।। [युग्मम्] मन्त्री गुप्तं स्थानपालमेकमेवमथाऽशिषत् । 'यो रात्रावेति शीतातॊ, बालः सोऽर्प्य उपांशु मे ॥१७७।। ततो मौहूर्त्तिकैर्लग्नं, निर्दोषं निरणाययत् । अचीकरच्चोयमसज्जतां सचिवेश्वरः ॥१७८।। देव्यथो मङ्गलं ज्ञानाद्भूपकन्योचितं वरम् । ज्ञात्वाऽवन्तीमयासी[त्] [त]मारामस्थमवैक्षत ॥१७९।।
१. निरामये । २. अश्वशालारक्षककृताग्नौ । ३. विवाहसज्जताम् ।