________________
दाने मङ्गलकलशकथा
स निशम्येति तनयं, निजं त्वग्दोषिणं विदन् । व्याजोत्तरपरः प्राह, 'क्व भूमीभृदहं क्व च ? ॥१६०॥ यथा मराल-बकयोर्यथा कोकिल-काकयोः । कस्तूरी-पङ्कयोर्यद्वदब्धि-गोष्पदयोर्यथा ॥१६१॥ सूर-खद्योतयोर्यद्वत्, कल्पद्रुम-करीरयोः । यथा तथाऽऽवयोर्भर्तृ-भृत्ययोर्महदन्तरम् ॥१६२॥ युग्मम् ॥ इदं च विश्रुतं विश्वे, सम्बन्धः सदृशो भवेत् । नागेन्द्र-राजितौ क्वापि, नहि सम्बन्धमर्हतः ॥१६३।। अन्यच्च सह देवेन, महान् कर्तुं कथं क्षमे ? । इक्षुदण्डान् सामयोनिस्पर्द्धया को जिघत्सति ?' ॥१६४॥ अमुं ततः प्रतिवचोगोचरीचकृवान्नृपः । भाषतेऽदो भवान् मन्त्रिन् !, किं साम्प्रतमसाम्प्रतम् ॥१६५॥ आवयोरन्तरं किन्तु, यः कोशो मे तवैव सः । तदुत्सवविधाने का, चिन्ता मानय मद्वचः' ॥१६६।। एवं भूपेन मधुरमुक्तोऽसौ बहुमानतः । उत्साहितः परैश्चापि, दृढः प्रत्युत्तरेऽभवत् ॥१६७॥ ततश्चोमिति जल्पित्वाऽनन्योपायो गृहं गतः । आराधयद् गोत्रदेवीं, दर्भसंस्तरसंश्रितः ॥१६८॥ श्रीखण्डा-ऽगुरु-कर्पूरसारपूजाप्रमोदिता । उपवासत्रयान्तेऽथ, प्रत्यक्षा तस्य देव्यभूत् ॥१६९॥ १. 'हुंठ' इति पु.प्रे. ।