________________
श्रीअजितप्रभुचरितम् सर्गः-१ तयोः कल्पलतास्वप्नाख्यातसद्भाग्यवैभवा । त्रैलोक्यसुन्दरी जज्ञे, सुन्दराकृतिरङ्गजा ॥१५०॥ उल्लङ्घ्य शैशवाध्वानं, भृशं श्रान्तिमुपेयुषी । व्यश्राम्यद्यौवनारामे, सा लावण्याम्बुशालिनि ॥१५१॥ प्रज्ञाप्रकर्षे भारत्या, रूपे रू(द)र्पककान्तया । गङ्गया शीलनैर्मल्ये, शश्वद्योपममे बुधैः ॥१५२।। बभूव यां विनिर्मातुमिच्छतो वेधसो ध्रुवम् । अभ्यासायैव सर्वोऽन्यनारीसर्गस्त्रिविष्टपे ॥१५३।। जनन्यादेशतो नन्तुमागतां तां परेद्यवि । दृष्ट्वाऽध्यासीन्नृपः कोऽस्या, भविष्यत्युचितः पतिः ॥१५४॥ विसृज्य संसदं धीमानन्तःपुरमवाप्य च । वरस्वरूपं पप्रच्छ, राज्ञी साऽपीत्यभाषत ॥१५५।। 'इयमेकैव दुहिता, पुत्रस्थानेऽस्ति नाथ ! ते । तदस्या नोचितो दूरे, विवाहो विरहार्तिदः ॥१५६।। स्वकीयमन्त्रिपुत्रेण, कन्यामेनां विवाहय । हृदयेश ! यथा शश्वन्नेत्रानन्दाय जायते' ॥१५७।। तथेति मत्वा तां वाचं, भूषयन् भूपतिः सभाम् । सप्रसादं निजामात्यमित्यवोचत् ससम्मदः ॥१५८॥ 'अमात्य ! निजपुत्रीयं, त्वत्पुत्राय मया ददे ।। तद्विवाहप्रगुणतां, जवाबुद्धिनिधे ! कुरु' ॥१५९॥
१. रत्या ।