SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा जिनार्चार्थे सुमादानबद्धबुद्धिः स्वयं धनः । गच्छत्यहरहः प्रातरारामं स्फुरदुद्यमः ॥१४०॥ बालोऽयं बाल्यचापल्याद्वार्यमाणोऽपि चान्यदा । पित्रा समं ययौ तत्राऽऽलुलोके मालिकेन च ॥१४१।। मालिकः श्रेष्ठिपुत्रं तं, विज्ञाय प्रवरैः फलैः ।। सच्चकार यतः पूज्याः, सर्वैः सर्वत्र तादृशाः ॥१४२।। श्रेष्ठी प्राप्तो गृहं पूजां, जगत्पूज्यस्य तेनिवान् । बालोऽपि चकृवान् पुष्पाद्यर्पणेन सहायताम् ॥१४३।। यात्येवं समयेऽन्येद्युः, स तातं विनयी जगौ । 'अहमेवाथ पुष्पेभ्यो, यास्याम्याराममन्वहम्' ॥१४४॥ निषेधतोऽपि ता[त]स्याऽनुमति प्राप्य भक्तितः । ययौ स नित्यमारामं, शौण्डीरः सिंहपोतवत् ॥१४५॥ श्रेष्ठ्यादेशात्तस्य सारां, मालाकारोऽनिशं व्यधात् । ददौ सुरभिपुष्पाणि, सुस्वादूनि फलान्यपि ॥१४६॥ इत्थं स्वतातभक्तोऽयमभ्यस्यन्नन्तराऽन्तरा । कलाकलापं तारुण्यसन्निधिं समुपेयिवान् ॥१४७।। इतश्च पुरि चम्पायां, कम्पितारिचयो नृपः । सद्दानोद्यत्करो हस्तिवदस्ति गुणसुन्दरः ॥१४८॥ गुणावलीति तस्याऽस्ति, देहिनीव गुणावली । प्रेयसी पेशलालापपराभूतसुधारसा ॥१४९॥ १. मालाकृता । २. 'सार'मिति पु.प्रे. । श्रीमाणिक्यचन्द्रसूरिरचिते श्रीशान्तिनाथचरित्रे १।१९७। 'बालोऽसौ मे सुतस्तेन, सारा कार्याऽस्य सर्वथा' इति ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy