________________
१४
श्रीअजितप्रभुचरितम् सर्ग:-१ एवं दयितया शिष्टः, श्रेष्ठी हृष्टो विशिष्टधीः । प्रत्यूहव्यूहापोहाय, प्रावृतद्धर्मकर्मणि ॥१३०॥ निशि सुप्तं तमन्येास्तुष्टा शासनदेवता । प्रत्यक्षतामिता स्माह, भाग्यवांस्तनयोऽस्तु ते' ॥१३१॥ इतश्च निशि निद्राणा, [शयने] स्वल्पकल्पना । सत्यभामाऽभितः पुष्पस्रक्श्रेणिमहितं [ततम्] ॥१३२।। राजीवराजिवदनं, पूर्णकुम्भं शुभप्रदम् । कल्याणहेतुं कल्याणमयं स्वप्ने व्यलोकत ॥१३३।। युग्मम् ॥ तया निवेदितस्वप्नः, पतिः शुभमतिर्जगौ । 'समग्रगुणसम्पूर्णः, सुतस्ते भविता प्रिये !' ॥१३४।। गर्भं बभार सा सारं, पुपोष भृशतोषभाग् । समये सुषुवे वार्त्तमदभ्रद्युतिराजितम् ॥१३५।। काराङ्गिमोचनं पुर्यां, पताकोद्यत्प्रपञ्चनम् । व्यधत्त भूपं विज्ञप्य, पुत्रजन्मोत्सवे धनः ॥१३६।। सुन्दर्यो ननृतुस्तारं, पेठुर्मङ्गलपाठकाः । नेदुर्मङ्गलतूर्याणि, कृतार्था अथिनोऽभवन् ॥१३७।। प्रवृत्तेषु महेष्वेवं, द्वादशेऽह्नि पिताऽतनोत् । आख्यां मङ्गलकलस, इत्यस्य स्वप्नसङ्गताम् ॥१३८॥ गुणैः सार्धं वर्धमानः, पित्रोः सम्प्रीणयन् मनः । अयं जयन्ततुल्यश्रीः, समभूदष्टहायनः ॥१३९॥
१. स्वर्णमयम् । २. नीरुजम् । ३. प्राज्यकान्तिशोभितम् । ४. 'कलशः कलसो निपः' (अभि० चिन्ता० श्लो० १०१९) इति द्विविधौ शब्दौ स्तः ।