________________
दाने मङ्गलकलशकथा
अन्या अनन्यसामान्याः, कन्या उद्वह मा मुहः । भाविनस्तनयास्तासु, धुक्ष्मासु सुरशाखिवत् ॥१२०॥ निरपत्या हि याः पापाः, पुनरुद्वाहकाङ्क्षिणः । प्रतिषेधन्ति कान्ता मां, तासु मा जीगणः प्रभो !' ॥१२१॥ श्रेष्ठी गिरमथाऽब्रूतानुचितं वक्षि किं प्रिये ! । नाद्यापि हृदयं वेत्सि, सुकृतैकमतेर्मम ॥१२२॥ त्वत्कुक्षिसम्भवाः पुत्राश्चेतो धिन्वन्ति चेन्मम । तत्प्रमोदाय सन्त्वन्यैः, पुनः प्राणप्रिये ! कृतम् ॥१२३॥ तदुपायमुपायज्ञे !, कञ्चित् सुवदने ! वद । स्त्रीजातित्वेन तव यद्भारती पक्षपातभाक् ॥१२४॥ सत्यभामा ततोऽवादीदादीनवविमुक्तया । वाचा कुण्ठीकृतोन्मत्तकोकिलाकोमलध्वनिः ॥१२५।। 'नाथ ! पूजय सद्भक्त्या, भक्तचिन्तामणीयितम् । देवदेवं तथा देहि, दानं पात्रेषु भावतः ॥१२६।। सार्मिकाणां वात्सल्यं, विधेहि शुभधीनिधे ! । दीनैस्त्याजय दीनत्वं, ज्ञानं सज्ज्ञानमानय ॥१२७।। एवं निर्माय मनसोर्मिनिर्माणस्य सत्क्रियाम् । तव चेन्नन्दनो भावी, तर्हि पूर्णा मनोरथाः ॥१२८॥ नो चेत् सुकृतकर्मेदमाराद्धं शुभभावतः । परत्राऽपि परं सौख्यं, विधास्यति बुधोत्तम !' ॥१२९।। १. दोषरहितया ।